________________ 364 शोभनस्तुति-वृत्तिमाला सूर्यकान्तेस्त्रपां-लज्जां कुर्वाणा / आनत्या-प्रणामेन हेतुभूतया जनानां कृत्तः-छिन्नो मोहो रतं च येन तस्य संबोधनम् / शस्ता-प्रकृष्टा / अदरिद्रा-आढ्या ऊहाः-तर्का यस्याः सा अदरिद्रोहिका / अक्षोभ्याअपराभवनीया / प्रोन्मादिनां-दर्पवतां परवादिनां मानस्य-अहंकारस्य त्याजनं-मोक्षणं करोतीति / अतिशयेन तमो हरतीति तमोहरतमा / हे ईश !-नेतः ! / / 87 / / अम्बादेव्याः स्तुतिःहस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद् .. विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् / सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विधासे वितताम्रपादपरता'ऽम्बा' चारिपुत्राऽसकृत् // 4 // 88 // - - शार्दूल० ज० वि०-हस्तेति / सा अम्बा-अम्बिका देवी, अत्रापि बवयोरैक्यं यमकवशादेव, नः-अस्माकं भूति-सम्पत्तिं वितनोतु-विस्तारयतु इति क्रियाकारकयोगः / अत्र वितनोतु' इति क्रियापदम् / का की ? 'अम्बा' / कां कर्मतापन्नाम् ? 'विभूतिम्' / केषाम् ? 'नः' / अम्बा कथंभूता ? 'हस्तालम्बितचूतलुम्बिलतिका' हस्ताग्रे आलम्बिता-अवलम्बिता-लोलायमाना चूतस्य-आमद्रुमस्य लुम्बिरूपा लतिका यस्याः सा तथा / पुनः कथं० ? 'रिपुत्रासकृत्' वैरिणां त्रासकारिणी / कया ? 'वाचा' गिरा, हक्कारवेणेत्यर्थः / पुनः कथं० ? 'अर्जुनरुचिः' चामीकरच्छविः / पुनः कथं० ? 'अधिरूढा' आसीना / कस्मिन् ? 'सिंह' केसरिणि / कथंभूते केसरिणि (सिंहे) ? 'उल्लसद्विश्वासे' उल्लसन् विश्वासो-विश्रम्भो यस्य स तथा तस्मिन् | पुनः कथंभूता अम्बा ? 'वितताम्रपादपरता' विततः-विस्तीर्णः य आम्रपादपःचूतवृक्षः तत्र रता-आसक्तचित्ता / पुनः कथं० ? 'चारिपुत्रा' चारिणौ-विहरणशीलौ पुत्रौ यस्याः सा तथा / सेति तच्छब्दसम्बद्धत्वाद् यच्छब्दघटनामाह-यस्याः अम्बायाः जनः-लोकः ‘विश्वासेवितताम्रपादपरतां' विश्वेन-जगता [आ] सेवितौ-आराधितौ ताम्रौ-रक्तौ ईदृशौ यौ पादौ-चरणौ तयोः परतां-तदेकशरणतां अभ्यगात्-जगाम / अत्रापि ‘अभ्यगात्' इति क्रियापदम् / कः कर्ता ? 'जनः' / कां कर्मतापन्नाम् ? 'विश्वासेवितताम्रपादपरताम्' / कथम् ? 'असकृत्' अनारतम् / / 1. 'लम्बि०' इत्यपि पाठः /