________________ श्रीनेमिजिनस्तुतयः 363 --+ -+ परतीथिकानाम् / किंविशिष्टानां वादिनाम् ? 'प्रोन्मादिनां' प्रकर्षण-उन्मादः-चित्तविप्लवो येषां ते तथा / “उन्मादश्चित्तविप्लवः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 234) / पुनः किंविशिष्टा ? | 'तमोहरतमा' तमः-अज्ञानं हरतीति तमोहरा, अतिशयेन तमोहरा तमोहरतमा / अतिशयेऽर्थे तमप्प्रत्ययः / किं कुर्वाणा भारती ? / कुर्वाणा / काम् ? / त्रपां लज्जाम् / कस्याः ? / 'भास्वत्प्रभायाः' भास्वतःसूर्यस्य प्रभा-कान्तिः तस्याः / (कस्मात् ?) अणुपदार्थदर्शनवशात्' अणवः-अत्यन्तं सूक्ष्माः चक्षुरग्राह्या इति यावत् ते च ते पदार्थाः-जीवादिनवपदार्थाः तेषां यद् दर्शन-व्यक्तीकरणं तस्मात्, हेत्वर्थे पञ्चमी / “प्रमितिविषयाः पदार्थाः” इति वैशेषिकादयः / “परस्पराविनि ठिमक्षणक्षयिलक्षणनिरंशाः परमाणवः पदार्थाः” इति बौद्धाः / 'जनकृत्तमोहरत !' इति / मोहश्च रतं चेति पूर्वं 'द्वन्द्वः', ततः जनानां-भव्यप्राणिनां कृत्ते-छिन्ने मोहरते-अज्ञानसुरते येन इति तृतीयाबहुव्रीहिः तस्यामन्त्रणम् / भगवतः ननु अपुरुषार्थोऽयम् / सुखस्यापि हानेरिति चेन्न, बहुतरदुःखानुविद्धतया सुखस्यापविद्धयत्वात्, मधुविषसंसक्तान्नभोजनजन्यसुखवत् / यद्वा कृत्तं मोहरतं-अज्ञानस्य सुखं येनेति विवक्षणे न कोऽपि दोषः / कया ? / आनत्या-प्रणामेन / इति तृतीयवृत्तार्थः / / 87 / / ध० टीका-कुर्वाणेति / 'कुर्वाणा' जनयन्ती / 'अणुपदार्थदर्शनवशात्' अणवः-सूक्ष्माः येपदार्थास्तेषां यद् दर्शन-व्यक्तीकरणं तद्वशात्-तदायत्तभावत्वात् / 'भास्वत्प्रभायाः' भानुदीप्तेः / ‘त्रपां' लज्जाम् / इयमणूनपि पदार्थान् दर्शयति न त्वहं, अतो जितोऽस्मीत्येवंनिमित्तम् / 'आनत्या' प्रणामेन हेतुना / 'जनकृत्तमोहरत !' जनानां कृत्तः-छिन्नो मोहश्च रतं च येन असौ सम्बोध्यते / 'मे' मम / 'शस्ता' प्रशस्ता / ‘अदरिद्रोहिका' न दरिद्राः-तुच्छरूपाः ऊहा यस्याः सा / अत्र स्वार्थे कन् / 'अक्षोभ्या' अंचालनीया. / 'तव' भवतः / 'भारती' वाक् / 'जिनपते !' जिननाथ ! / 'प्रोन्मादिनां' प्रकर्षण उन्मादवताम्, दर्पासमञ्जसचेष्टानामित्यर्थः / ‘वादिनां' परतीथिकानाम् / ‘मानत्याजनकृत्' मानस्यस्तब्धतायाः त्याजनं-मोक्षणं करोति या सा / 'तमोहरतमा' अतिशयेन तमोहरा / 'ईश !' स्वामिन् ! / 'स्ताद्' भवतु / 'अरिद्रोहिका' अरीणां द्रोहकारिका / हे जिनपते ! तव भारती मे अरिद्रोहिका स्तादित्यादि योगः / / 87 / / अवचूरिः हे जिनपते ! तव भारती-वाणी मे-मम अरिद्रोहिका-बाह्याभ्यन्तरशत्रुजयकारिणी स्ताद्-भूयात् / किंविशिष्टा ? / अणवः-सूक्ष्माः पदार्था-जीवाजीवादयस्तेषां दर्शनवशात्-प्रकाशनाद् भास्वत्प्रभायाः