________________ श्रीविमलजिनस्तुतयः 209 (2) * सि० वृ०-सदानवेति / भो भव्यात्मन् ! ते-तव ते जिनाः-तीर्थकराः क्रियासु-कर्तव्येषु आयतादीर्घा रतीः-मुदः क्रियासुः-विधेयासुरित्यर्थः / 'डुकृञ् करणे' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं यासुस् / ‘यादादौ' (सा० सू० 814) इत्यनेन ऋकारस्य रिङादेशः / ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च ‘क्रियासुः' इति सिद्धम् / अत्र ‘क्रियासुः' इति क्रियापदम् / के कर्तारः ? / जिनाः / काः कर्मतापन्नाः ? / रतीः / कस्य ? / ते / कासु ? / क्रियासु / "क्रिया कर्मणि चेष्टायां, करणं संप्रधावने / आरम्भोपायशिष्यार्थ-श्चिकित्साविकृतिष्वपि // " इति विश्वः / रतीः कथंभूताः ? / आयताः / कथंभूतासु क्रियासु ? / रुचितासु / पुनः कथं० ? / उचितासु-योग्यासु / कथंभूता जिनाः ? / 'सदानवसुराजिताः' सदानवा-दानवैः सह वर्तमाना ये सुरा-देवाः तैरजिताः-उपसर्गादिभिरक्षोभिताः / पुनः कथंभूताः ? / 'असमराः' समरः-सङ्ग्रामस्तेन रहिताः / पुनः कथंभूताः ? / 'भीरदाः' रदन्ति-भिन्दन्ति इति रदाः, पचादित्वादच्, ततः भियं-भयं रदन्ति ते भीरदाः / भियं रदन्तीति विग्रहे / 'कर्मण्यण' (पा० अ० 3, पा० 2, सू० 1) इति वृद्धौ भिरदा इत्यनिष्टं स्यादिति / पुनः कथंभूताः ? / 'सकलभारतीराः' सकलाः-सदोषाः सांसारिककृत्यरूपा ये भारास्तेषां पर्यन्तत्वात् तीराः-तीरभूताः, यद्वा असकला-अदोषा भारती-गिरमीरयन्ति रान्तीति वा असकलभारतीरा इत्यर्थः / पुनः कथंभूताः ? / यताः-यलं कुर्वाणाः, निगृहीतेन्द्रिया इत्यर्थः / पुनः कथंभूताः ? / 'सदानवसुराजिताः' सदानं-दानसहितं यद् वसु-द्रव्यं तेन राजिताः-शोभिताः / इदं च विशेषणं गृहस्थावस्थामाश्रित्य ज्ञेयम् / “देवभेदेऽनले रश्मी, वसू रले धने वसु” इत्यमरः (श्लो० 2791) / पुनः कथंभूताः ? | * 'असमराजिनाभीरदाः' असमं राजन्त इत्येवंशीलाः असमराजिनः, असमाश्च ते राजिनश्चेति वा नाभीरदाःनाभीदशना येषां ते तथा / नाभी च रदाश्च नाभीरदाः ‘इतरेतरद्वन्द्वः' / पुनः कथंभूताः ? / 'सकलभाः' सकला-सम्पूर्णा भा-दीप्तिर्येषां ते तथा / “स्युः प्रभारुकुचिस्त्विड्भा०” इत्यमरः (श्लो० 212) / “भा मयूखमहसी छविर्विभा” इति हैमः (का० 2, श्लो० 14) / / 50 / / (3) . सौ० वृ०-सदानवेति / ते जिनाः-तीर्थंकरा उचितासु-योग्यासु मुक्तिप्राप्तिलक्षणासु क्रियासु ते - तव रतीः क्रियासुः इत्यन्वयः / क्रियासुः' इति क्रियापदम् / के कर्तारः ? / 'जिनाः'। काः कर्मतापन्नाः ? / 'रतीः' परमप्रीतीः / कासु ? / 'क्रियासु' आवश्यकाद्यनुष्ठानेषु / किंवि० क्रियासु ? / 'उचितासु' योगक्षेमावाप्तियोग्यासु / कस्य ? | 'ते' तव / किंविशिष्टा जिनाः ? / दानवैः सहिता ये सुरा-अमरा