________________ 360 शोभनस्तुति-वृत्तिमाला ++++++++++++++++++++++++++ 'भारती' / कस्य ? 'तव' / कथंभूता ? 'अरिद्रोहिका' / कस्य ? 'मे' / न चायं मेशब्दो युष्पच्छब्दविशेषादेशत्वात् सम्बोधनपदाग्रे कथं प्रयुक्तः “सम्बोधनपदादग्रे न भवन्ति वसादयः” (सा० सू० 345) इत्याशङ्कनीयम् / मे इत्यस्य षष्ठ्यन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशत्वाभावादिति / भारती किं कुर्वाणा ? 'कुर्वाणा' विदधाना / कां कर्मतापन्नाम् ? 'त्रपां' लज्जाम् / कस्याः ? 'भास्वत्प्रभायाः' / कस्मात् ? 'अणुपदार्थदर्शनवशात्' अणवः-सूक्ष्माः ये पदार्थाः-परमाण्वादयः तेषां यद् दर्शनं व्यक्तीकरणं तद्वशात्-तदायत्तभावत्वात् / इयं अणूनपि पदार्थान् दर्शयति, न त्वहम्; अतो जिताऽस्मीत्येवंरूपां भास्वत्प्रभायास्त्रपां करोतीति हार्दम् / भारती कथंभूता ? 'शस्ता' प्रशस्ता / पुनः कथं० ? 'अदरिद्रोहिका' अदरिद्रा-अतुच्छा ऊहा यस्याः सा तथा / अत्र स्वार्थे कन् / पुनः कथं० ? 'अक्षोभ्या' अचालनीया | पुनः कथं० ? 'मानत्याजनकृत्' अभिमानमोक्षणकारिणी / केषाम् ? 'वादिनां' परतीर्थिकानाम् / कथंभूतानाम् ? 'प्रोन्मादिनां' प्रकर्षणोन्मादवताम्, दर्पादसमञ्जसचेष्टानामित्यर्थः / पुनः कथंभूता भारती ? 'तमोहरतमा' अतिशयेन तमोहरा-अज्ञानविनाशिनी / अवशिष्टे च द्वे जिनपतेः सम्बोधने, तद्व्याख्या यथा-हे 'जनकृत्तमोहरत !' मोहः-मोहनीयं कर्म रतं-कामकेलिः, ततः जनानांलोकानां कुत्ते-छिन्ने-सर्वथा निरस्ते मोहरते येन स तथा तत्सम्बोधनं हे जन० / कया हेतुभूतया ? . 'आनत्या' प्रणामेन / हे 'ईश !' स्वामिन् ! / / अथ समासः-अणवश्च ते पदार्थाश्च अणुपदार्थाः ‘कर्मधारयः' / अणुपदार्थानां दर्शनं अणु० 'तत्पुरुषः' / अणुपदार्थदर्शनस्य वशः अणु० 'तत्पुरुषः' / तस्मादणु० / भास्वतः प्रभा भास्वत्प्रभा 'तत्पुरुषः' / तस्याः भास्वत्प्रभायाः / मोहश्च रतं च मोहरते ‘इतरेतरद्वन्द्वः' / कृत्ते मोहरते येन स कृत्त० 'बहुव्रीहिः' / जनानां कृत्तमोहरतः जनकृत्त० 'तत्पुरुषः' / तत्सम्बो० हे जनकृत्त / न दरिद्रा अदरिद्राः 'तत्पुरुषः' / अदरिद्रा ऊहा यस्या सा अदरिद्रो० 'बहुव्रीहिः' / न क्षोभ्या अक्षोभ्या 'तत्पुरुषः' / जिनानां जिनेषु वा पतिः जिनपतिः ‘तत्पुरुषः' / तत्सम्बो० हे जिन० / प्रकर्षणोन्मादिनः प्रोन्मादिनः 'तत्पुरुषः' / तेषां प्रोन्मा० / मानस्य त्याजनं मान० 'तत्पुरुषः' / मानत्याजनं करोतीति मान० 'तत्पुरुषः' / तमो हरतीति तमोहरा 'तत्पुरुषः' / अतिशयेन तमोहरा तमो० / अरीणां द्रोहिका अरि० 'तत्पुरुषः' / इति काव्यार्थः / / 87 / / सि० वृ०-कुर्वाणेति / हे जिनपते ! हे जिननायक ! तव-भवतः भारती-वाणी मे-मम अरिद्रोहिकाअरीणां द्रोहकारिणी स्ताद्-भवतु इत्यर्थः / अस् भुवि' धातोः ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र ‘स्ताद्' इति क्रियापदम् / का कर्जी ? भारती / बिभर्तीति भारती पृषोदरादिः / कस्य ? / तव / कथंभूता ? / अरिद्रोहिका / कस्य ? / मे-मम / न चायं मेशब्द: 1. भ्रान्तिरियम्, अत्र अस्मदित्यावश्यकम्, अस्मदो 'मे' इत्यादेशत्वात् / 2. अत्राऽपि 'अस्मद्' इत्युचितम् पूर्ववत् /