________________ श्रीनेमिजिनस्तुतयः 359 ध० टीका-प्रावाजीदिति / 'प्रावाजीत्' प्रव्रज्यां अग्रहीत् / 'जितराजका' वशीकृतराजसमूहा / 'रज इव' रेणुमिव / ‘ज्यायोऽपि' प्रशस्यमपि / ‘राज्यं' राजव्यापारम् / 'जवाद' वेगात् / 'या' / 'संसारमहोदधावपि' भवमहार्णवेऽपि / 'हिता' श्रेयस्करी / 'शास्त्री' शिक्षयित्री / 'विहाय' त्यक्त्वा / 'उदितं' प्राप्तोदयम् / 'यस्याः ' / 'सर्वत एव' समन्तादेव / 'सा' / 'हरतु' अपनयतु / 'नः' अस्माकम् / 'राजी' परिपाटिः / 'जिनानां' अर्हताम् / 'भवायासं' संसारखेदम् / ‘सारमहः' महार्हत् तेजः / 'दधाव' वेगात् प्रससार | 'पिहिताशास्त्रीविहायः' पिहिताः-स्थगिताः आशास्त्रियो-दिग्वनिताः विहायो-व्योम च येन तत् / 'अदितं' अखण्डितम् / या राज्यं विहाय प्रावाजीत यस्याः सारमहः सर्वत एव दधाव, सा जिनानां राजी भवायासं हरतु नः इत्यन्वयः / / 86 / / अवचूरिः या उदितम्-उदयं प्राप्तं ज्यायोऽपि-अतिप्रौढमपि राज्यं रज इव विहाय प्रावाजीत्-प्रव्रज्यामग्रहीत् / किंभूता ? / जितं राजकं-राजसमूहो यया सा / संसारमहोदधौ-भवमहार्णवेऽपि हिता-सुखकारिणी / शास्त्री-शिक्षयित्री / यस्माच्च सर्वतः-सर्वासु दिक्षु सारमहो-सारतेजो दधाव-प्रससार / किंभूतम् ? / पिहिता-आच्छादिता आशास्त्रियो-दिग्वनिता विहायः-आकाशं च येन तत् / अदितम्-अखण्डितम् / सा जिनानां राजी भवायासं-संसारक्लेशं नः-अस्माकं हरतु / / 86 / / जिनवाणीगौरवम्कुर्वाणाऽणुपदार्थदर्शनवशाद् भास्वत्प्रभायास्त्रपा - मानत्या जनकृत्तमोहरत ! मे शस्ताऽदरिद्रोहिका / अक्षोभ्या तव भारती जिनपते ! प्रोन्मादिनां वादिनां मानत्याजनकृत् तमोहरतमेश ! स्तादरिद्रोहिका // 3 // 87 // __ - शार्दूल० ज० वि०-कुर्वाणेति / हे जिनपते !-जिनराज ! तव-भवतः भारती-वाक् मे-मम अरिद्रोहिकाअरीणां द्रोहकारिणी स्तात्-भवतु इति क्रियाकारकान्वयः / अत्र ‘स्तात्' इति क्रियापदम् / का की ?