________________ 358 शोभनस्तुति-वृत्तिमाला एव' सर्वत्र / किंविशिष्टं सारमहः ? / पिहितानि स्थगितानि आशा-दिशः स्त्रियो-योषितः विहायःआकाशं येन तत् पिहिताशास्त्रीविहायः' / पुनः किंविशिष्टं सारमह: ? / 'अदितं' अखण्डितं, परिपूर्णमित्यर्थः / इति पदार्थः / अथ समासः-राज्ञां समूहो राजकं, जितं राजकं यया सा जितराजका / अतिशयेन वृद्धं ज्यायः, तद् ज्यायः / राज्ञो भावो राज्यं, तद् राज्यम् / संसरणं संसारः, उदकानि धीयन्ते-स्थाप्यन्ते अस्मिन् इति उदधिः, महांश्चासौ उदधिश्च महोदधिः, संसार एव महोदधिः संसारमहोदधिः, तस्मिन् संसारमहोदधौ / शास्ति-शिक्षयतीति शास्त्री / भवस्य आयासः भवायासः, तं भवायासम् / सारं च तन्महश्च सारमहः / आशाश्च स्त्रियश्च विहायश्च आशास्त्रीविहायांसि, पिहितानि आशास्त्रीविहायांसि येन तत् पिहिताशास्त्रीविहायः / न दितं अदितम् / पक्षे उदितं उदयप्राप्तं राज्यमित्यर्थः / इति द्वितीयवृत्तार्थः / / 86 / / (4) दे० व्या०-प्रावाजीज्जितेति / सा जिनानां राजी-ततिः नः-अस्माकं भवायासं-संसारपरिश्रम हरतु-नाशयतु इत्यन्वयः / 'हृञ् हरणे' धातुः / हरतु' इति क्रियापदम् / का की ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / भवायासम् / भवस्य आयासं भवायासं इति ('तत्पुरुष') समासः / केषाम् ? / नः / किंविशिष्टा जिनानां राजी ? / 'जितराजका' जितं भग्नं राजकं-राज्ञां समूहो यया सा तथा / “स्याद् राजपुत्रकं राजन्यकं राजकमाजकं” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 53) / पुनः किंविशिष्टा ? / हिता-हितकारिणी / कस्मिन् ? / 'संसाराम्भोधौ' संसरणं संसारः भावे घञ् स एव महान् प्रकृष्टो यः उदधिः-समुद्रः तस्मिन् / पुनः किंविशिष्टा ? / शास्त्री-शिक्षयित्री, द्विसप्ततिकलायाः पूर्वं भगवतैव शिक्षणात् / यत्तदोर्नित्याभिसम्बन्धाद या जिनानां राजी जवात-शीघ्र प्रावाजीत्-प्रव्रज्यामग्रहीत् / ‘प्रावाजीद्' इति क्रियापदम् / का की ? / जिनानां राजी / किं कृत्वा ? / विहाय-सन्त्यज्य / किम् ? / राज्यं साम्राज्यम् / कथम् ? / जवाद-अविलम्बेन यथा स्यात् तथेति क्रियाविशेषणम् / किमिव ? / रज इव / यथा रजस्त्यागे विलम्बो न भवति तथा अविलम्बेन राज्यं त्यक्तमित्यभिप्रायः / च-पुनः यस्याः-जिनराज्याः ‘सारमहः' सारं-प्रधानं महः-तेजः सर्वतः-समन्तात् दधाव-प्रससारेत्यन्वयः / 'दधाव' इति क्रियापदम् / किं कर्तृ ? / 'सारमहः' सारं प्रधानं महः-तेजः / कथम् ? / किंविशिष्टं सारमह: ? / 'पिहिताशास्त्रीविहायः' आशास्त्री-दिग्वनिता विहायः-आकाशं अनयोः 'द्वन्द्वः', ततः पिहिते आच्छादिते आशास्त्रीविहायसी येनेति / अदितं-अखण्डितम् / न दितं अदितमिति नसमासः / पुनः किंविशिष्टम् ? / उदितं-उदयं प्राप्तम् / किंविशिष्टं राज्यम् ? / प्रशस्यमिति (मपि?) श्लाघनीयमपि / पुनः किंविशिष्टम् ? / उदितं गतार्थमेतत् / / इति द्वितीयवृत्तार्थः / / 86 / /