________________ श्रीनेमिजिनस्तुतयः 357 पुनः कथंभूता ? / हिताहितकारिणी / कस्मिन्नपि ? / 'संसारमहोदधावपि' संसरणं संसारः भावे घञ् स एव महान्-प्रकृष्टो यः उदधिः-समुद्रः तस्मिन् / पुनः कथंभूता ? | शास्त्री-शिक्षयित्री / 'शासु अनुशिष्टौ' शीलार्थे तृ(तृन्)प्रत्ययः / द्विसप्ततिकलायाः पूर्वं भगवता एव शिक्षणादिति भावः / यदिवा शास्त्री जीवादितत्त्वोपदेशदायिनीत्यर्थः / पुनर्यच्छब्दयोजनामाह च पुनर्यस्या-जिनराज्याः सारमह:प्रधानतेजः सर्वत एव-समन्तादेव दधाव-वेगात् प्रससारेत्यर्थः / 'दधाव' इति 'सृ गतौ' इति धातोर्धावादेशे परोक्षे कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं णप् / 'द्विश्च' (सा० सू०७१०) इति धातोर्द्वित्वम् / 'हूस्वः' (सा० सू० 713) इति ह्रस्वः / 'झपानां जबचपाः' (सा० सू० 714) इति पूर्वधकारस्य दत्वम् / अत उपधायाः' (सा० सू०७५७) इति वृद्धिः / तथा च ‘दधाव' इति सिद्धम् | आदेशस्तु सार्वधातुके दृश्यते / आर्धधातुके तु तदभावाद् दधावेति चिन्त्यमिव प्रतिभाति / अत्र 'दधाव' इति क्रियापदम् / किं कर्तृ ? 'सारमहः' सारं च तन्महश्च सारमहः / कस्याः ? / 'यस्याः ' / कथम् ? / सर्वत एव / कथंभूतं सारमह: ? / 'पिहिताशास्त्रीविहायः' आशास्त्रियो-दिगङ्गनाः विहायो-गगनं, आशास्त्रियश्च विहायश्च आशास्त्रीविहायांसि, एतानि पिहितानि-आच्छादितानि येन तत् तथा / विजहाति सर्वमिति विहायः / असुनि साधुः / पुनः कथंभूतम् ? | ‘अदितं न दितं अदितं' अखण्डितम् / 'दो अवखण्डने' 'यतिस्यतिमास्था०' (पा० अ०७, पा० 4, सू० 40) इति इकारोन्तादेशः / / 86 / / (3) सौ० वृ०-प्रावाजीज्जितेति / सा जिनानां राजी-तीर्थकृतां श्रेणिः नः-अस्माकं भवायासं संसारखेदं हरतु इत्यन्वयः / ‘हरतु' इति क्रियापदम् / का की ? / 'राजी' / केषाम् ? 'जिनानाम्' / 'हरतु' अपनयतु / कं कर्मतापन्नम् ? / 'भवायासम्' / केषाम् ? / 'नः' अस्माकम् / कथंभूता जिनानां राजी ? | 'सा''सा-प्रसिद्धा / तच्छब्दो यच्छब्दमपेक्षते / सा का ? / या जिनानां राजी प्रावाजीदित्यन्वयः / 'प्रावाजीद्' इति क्रियापदम् / का की ? / 'या' / 'प्रावाजीद्' दीक्षामग्रहीत् / किं कृत्वा ? / 'विहाय' त्यक्त्वा / किं कर्मतापन्नम् ? / 'राज्य' नृपत्वम् / कथम् ? / 'जवात्' वेगेन / किमिव ? / 'रज इव' यथा रजः वेगेन त्यज्यते / किंविशिष्टं राज्यम् ? / 'ज्यायोऽपि' महदपि / किंविशिष्टा राजी ? / [तं] पराजितं राजकं-राजसमूहो यया सा 'जितराजका' | पुनः किंविशिष्टा राजी ? / 'हिता' हितकारिणी / कस्मिन् ? / 'संसारमहोदधौ अपि' संसारसमुद्रेऽपि / पुनः किंविशिष्टा जिनानां राजी ? / 'शास्त्री' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनीत्यर्थः / पुनः किंविशिष्टा राजी ? | पुनर्यच्छन्दमपेक्षते / यस्याः राज्याः सारमहः-प्रधानं तेजः सर्वत एव-सर्वस्मिन्नपि जगति दधाव इत्यन्वयः / 'दधाव' इति क्रियापदम् / किं कर्तृ ? / 'सारमहः' / 'दधाव' प्रससार / कस्याः ? / 'यस्याः ' / कथम् ? / 'सर्वत 1. . चिन्त्यमेतद् ‘धावु गतिशुद्ध्यो रित्यस्य धातोः सद्भावात् /