________________ 356 शोभनस्तुति-वृत्तिमाला भवस्यायासो भवायासः 'तत्पुरुषः' / तं भवायासम् / सारश्च तन्महश्च सारमहः ‘कर्मधारयः' / स्त्रिय इव स्त्रियः / आशाश्च ताः स्त्रियश्च आशास्त्रियः ‘कर्मधारयः' / आशास्त्रियश्च विहायश्च आशास्त्रीविहायः 'इतरेतरद्वन्द्वः' / पिहितानि आशास्त्रीविहायांसि येन तत् पिहिता० ‘बहुव्रीहिः' / न दितं अदितं 'तत्पुरुषः' / इति काव्यार्थः / / 86 / / (2) सि० वृ०-प्रावाजीज्जितेति / सा जिनानां-तीर्थकृतां राजी-ततिः-श्रेणी नः-अस्माकं भवायासंसंसारखेदं हरतु-दूरीकरोतु इत्यर्थः / 'हृञ् हरणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / ‘अप्०' (सा० सू० 691) / ‘गुणः' (सा० सूत्र 692) इति गुणः / 'स्वरहीनं०' (सा० सू० 36) / अत्र 'हरतु' इति क्रियापदम् / का कर्जी ? / राजी / केषाम् ? / जिनानाम् / कं कर्मतापन्नम् ? / 'भवायासं' भवस्य आयासो भवायासस्तम् / केषाम् ? / नः / सेति तच्छब्दसाहचर्याद् यच्छब्दयोजनामाह / या जिनानां राजी प्रावाजीत्-प्रव्रज्यामग्रहीत् / प्रपूर्वक् ‘व्रज गतौ क्षेपणे च' धातोः कर्तरि भूते सौ परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'दिबादावट' (सा० सू० 707) / 'भृते सिः' (सा० सू० 724) / 'सिसतासीस्यपामिट्' (सा० सू० 720) इति सेरिडागमः / सेरिति दिपः ईडागमः / ‘इट ईटी' (सा० सू० 737) इति सेर्लोपः / 'सवर्णे दीर्घः' (सा० सू० 52) / 'णित्पे' (सा० सू० 759) इति परस्मैपदे णित्वे / 'अत उपधायाः' (सा० सू० 757) इति वृद्धिः / ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रावाजीत्' इति सिद्धम् / अत्र ‘प्रावाजीत्' इति क्रियापदम् / का की ? / या / किं कृत्वा ? / संत्यज्य-त्यक्त्वा / किम् ? / राज्यं-साम्राज्यं, राज्यव्यापारमिति यावत् / 'राजश्वशुराद्यत्' (पा० अ० 4, पा० 1, सू० 137) इति यत् / कस्मात् ? / जवान-वेगात् / किमिव ? / रज इव-रेणुरिव / यथा वस्त्रविलग्नरजःपरिशाटने विलम्बो न भवति तथाऽविलम्बेन त्यक्तमिति भावः / “रेणुर्द्वयोः स्त्रियां धूली (लिः) पांशु न द्वयो रजः” इत्यमरः (श्लो० 1664) / “अथ रजसि स्युर्दूलीपांशुरेणवः” इति हैमः (का० 4, श्लो० 36) / रज्यन्ते वस्त्राण्यनेन इति रजः / ‘रञ्ज रागे' ‘(सर्वधातुभ्यः) असुन्' (उणा० सू० 628) इत्यसुन् ‘असि अके अने०' (वार्तिके 4067) 'घिनुणि च' (वार्तिके 4068) रओर्लोपो वाच्यः यद्वा ‘भूरञ्जिभ्यां कित्' (उणा० सू० 656) इत्यसुन् / ‘रजकरजनरजःसूपसङ्ख्यानम्' (वार्तिके 4069) इति नलोपः / रजसी रजांसि इत्यादि रूपाणि “रजेनापि रजः सम” मिति शब्दप्रभेदः / राज्यं कथंभूतमपि ? / ज्यायोऽपि-प्रशस्यमपि / 'ज्य च' (पा० अ० 5, पा० 3, सू० 61) प्रशस्यशब्दस्य ज्यादेशः / ज्यादीयसिः' इति ईयस ईकारस्याकारः / पुनः कथंभूतम् ? / उदितं-उत्कर्ष प्राप्तम् / (उत्पूर्वक) 'इणू गतौ' भावे क्तः / या कथंभूता ? | 'जितराजका' जितं-वशीकृतं राजकं-राज्ञां समूहो यया सा / 1. 'ज्यादादीयसः' इति पाणिनीये (अ० 6, पा० 4, सू० 160).