________________ श्रीनेमिजिनस्तुतयः भासमान-कान्तिकदम्बेन दीप्यमानं जनैर्भासमानं वा / अहसं-हास्यमुक्तम् / राजीमत्या-राजकन्यायाः प्रव्रज्याग्रहणेन मनोरथविफलीकरणात् तापदं पश्चात् तु मुक्तिसुखप्रदम् / नम्राणां निवृति-मुक्तिं सुखं वा करोतीति / यश्च स्वामी यदूनां-यादवानां दक्षां राजीं-श्रेणिं अतीता-अतिक्रान्ता आपदो यया सा तामतीतापदं चक्रे-कृतवान् / नेमिं किंभूतम् ? / अञ्जनस्य भया-कान्त्या समानं-तुल्यं महः-तेजो यस्य / / 85 / / जिनश्रेण्याः स्तुतिःप्राव्राजीज्जितराजका रज इव ज्यायोऽपि राज्यं जवाद् या संसारमहोदधावपि हिता शास्त्री विहायोदितम् / यस्याः सर्वत एव सा हरतु नों राजी जिनानां भवायासं सारमहो दधाव पिहिताशास्त्रीविहायोऽदितम् // 2 // 86 // - -शार्दूल. (1) ज०वि०- प्रावाजीज्जितेति ! सा जिनानां राजी-तीर्थकरश्रेणी नः-अस्माकं भवायासं-संसारखेदं हरतु-दूरीकरोतु इति क्रियाकारकसम्बन्धः / अत्र ‘हरतु' इति क्रियापदम् / का की ? 'राजी' / केषाम् ? 'जिनानाम्' / कं कर्मतापन्नम् ? 'भवायासम्' / केषाम् ? 'नः' / सेति तच्छब्दसाहचर्याद्यच्छब्दयोजनामाहया जिनानां राजी प्रावाजीत्-प्रव्रज्यामग्रहीत् / अत्रापि ‘प्रावाजीत्' इति क्रियापदम् / का की ? 'या' / किं कृत्वा ? 'विहाय' त्यक्त्वा / किं कर्मतापन्नम् ? 'राज्य राजव्यापारम् / कस्मात् ? 'जवाद' वेगात् / किमिव ? ‘रज इव' रेणुमिव। राज्यं कथंभूतम् ? ‘ज्यायोऽपि' महदपि / पुनः कथं० ? 'उदितं' प्राप्तोदयम् / या कथंभूता ? 'जितराजका' जितं-वशीकृतं राजकं-राजसमूहो यया सा तथा / पुनः कथं०? 'हिता' श्रेयस्करी / कस्मिन्नपि ? 'संसारमहोदधावपि' भवमहार्णवेऽपि / पुनः कथं० ? 'शास्त्री' शिक्षयित्री, जीवाजीवादितत्त्वोपदेशदायिनीत्यर्थः / पुनर्यच्छब्दयोजनामाह-यस्याः-जिनानां राज्याः सारमहः-प्रधानतेजः सर्वत एव-समन्तादेव दधाव-वेगात् प्रससारेति क्रियाकारकयोगः / अत्र 'दधाव' इति क्रियापदम् / किं कर्तृ ? 'सारमहः' / कस्याः ? 'यस्याः' / कथम् ? 'सर्वत एव' / सारमहः कथंभूतम् ? 'पिहिताशास्त्रीविहायः' आशास्त्रियो-दिङ्नार्यः विहायः-गगनं एतानि पिहितानि-स्थगितानि येन तत् तथा / पुनः कथं० ? ‘अदितं' अखण्डितम् / / अथ समासः-जितं राजकं यया सा जित० 'बहुव्रीहिः' / महांश्चासौ उदधिश्च महोदधिः 'कर्मधारयः' महोदधिरिव महोदधिः / संसारश्चासौ महोदधिश्च संसारमहो० 'कर्मधारयः' / तस्मिन् संसार० /