________________ 354 OTPP नेमिम् / किंविशिष्टं नेमिम् ? / 'नम्रनिर्वृतिकरम्' नम्राणां-प्रह्रीभूतानां निर्वृति-सुखं कैवल्यं वा करोतीति तथा (तम्) / पुनः किंविशिष्टम् ? | भासमानं-शोभमानम् / पुनः किंविशिष्टम् ? अहसं-हास्यरहितम् / पुनः किंविशिष्टम् ? | ‘राजीमतीतापदम्' राजीमती-राजदुहिता तस्याः तापदं-दुःखप्रदम्, प्रव्रज्याग्रहणेन तन्मनोरथविफलीकरणात् / पुनः किंविशिष्टम् ? / 'अञ्जनभासमानमहसम्' अञ्जनं-कज्जलं तस्य भाकान्तिः तया समान-सदृशं महः-तेजो यस्य स तम्, श्यामशरीरत्वात् / यत्तदोर्नित्याभिसम्बन्धाद्, यो नेमिः यदूनां-यादवानां राजी-पङ्क्तिम् अतीतापदं चक्रे-चकार / 'डुकृञ् करणे' धातुः / 'चक्रे' इति क्रियापदम्। कः कर्ता ? / नेमिः / कां कर्मतापन्नाम् ? / राजीम् / केषाम् ? / यदूनाम् / किंविशिष्टां राजीम् ? / 'अतीतापदम्' अतीता-अतिक्रान्ता आपद्-विपत्तिर्यस्याः सा ताम् / पुनः किंविशिष्टाम् ? / दक्षाचतुराम् / च-पुनः यो नेमिः ऊर्जितराजकं-बलवद्राजसमूहं क्षणात्-क्षणमात्रेण रणमुखे-सङ्ग्राममुखे चिक्षेप-क्षेपयामास / ‘क्षिप प्रेरणे' धातुः / चिक्षेप' इति क्रियापदम् / कः कर्ता ? / नेमिः / किं कर्मतापन्नम् ? / ऊर्जितराजकम्' राज्ञां समूहो राजकं, ऊर्जितं च तद् राजकं चेति, पश्चात् ‘कर्मधारयः' / किंविशिष्टं ऊर्जितराजकम् ? / लक्षसङ्ख्यं-लक्षसङ्ख्याकम् / पुनः किंविशिष्टम् ? | अक्षामंउपचितम् ।न क्षामामक्षाममिति 'नसमासः' प्रचुरस्वसेवकजनोपेतत्वात् / / इति प्रथमवृत्तार्थः / / 85 / / ध० टीका-चिक्षेपेति / 'चिक्षेप' निरस्तवान् / 'ऊर्जितराजकं' बलवद्राजसमूहम् / ‘रणमुखे' समरारम्भे / 'यः' / लक्षसङ्ख्यं' लक्षाः संख्या यस्य तत्, अथवा अलक्षसंख्यम्-अविभाव्यपरिमाणम् / 'क्षणाद्' अक्षेपेण / ‘अक्षाम' समर्थम् / 'जन !' इति लोकस्यामन्त्रणम् / 'भासमानं' विराजमानम् / अथवा जनैर्भासमानं जनभासमानम् / 'अहसं' अविद्यमानहासम् / 'राजीमतीतापदं' राजीमतीउग्रसेनराजपुत्री तस्या मनोरथविफलीकरणात् तापदं-सन्तापदायिनम् / 'तम्' / 'नेमिं' नेमिनामधेयम् / 'नम' प्रणिपत / 'नम्रनिर्वृतिकरं' नम्राणां निवृति-सौख्यं करोतीति / 'चक्रे' कृतवान् / 'यदूनां' यादवानाम् / 'च' / 'यः' / 'दक्षा' असंमूढाम् / 'अञ्जनभासमानमहसं' अञ्जनभया-कज्जलच्छायया समान-समं महः-तेजो यस्य तम् / 'राजी' सन्ततिम् / अतीतापदं' अतिक्रान्तविपदम् / य ऊर्जितराजकं चिक्षेप यश्च यदूनां राजी अतीतापदं चक्रे तं नेमिं नमेति सम्बन्धः / / 85 / / अवचूरिः यो नेमिजिनो लक्षसंख्यं-लक्षप्रमाणमूर्जितराजकं-बलवद्राजवृन्दं रणमुखे चिक्षेप-बभञ्ज / क्षणाद-वेगेन / राजकं किंभूतम् ? | अक्षामं-उपचितम् / हे जन ! तं नेमिं नम / किंभूतम् ? |