________________ श्रीनेमिजिनस्तुतयः 353 ___ हे जन ! हे भव्यलोक! त्वं तं नेमिं-नेमिजिनं नम इत्यन्वयः / 'नम' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / 'नम' प्रणम / कं कर्मतापन्नम् ? / ('नेमि') नेमिनाथम् / किंविशिष्टं नेमिम् ? | नम्राणां-नमनशीलानां निर्वृतिः-मोक्षः सुख वा तं करोतीति ‘नम्रनिर्वृतिकरम्' / पुनः किंविशिष्टं नेमिम् ? / 'अहसं' अपगतहास्यम् / पुनः किंविशिष्टं नेमिम् ? / राजीमत्यां-(उग्रसेन)पुत्र्यां तापदंतापदायकं, काममनोरथविफलीकरणत्वात् / पुनः किंविशिष्टं नेमिम् ? / अञ्जनं-कज्जलं तस्य भाकान्तिः तत्संमानं-(सदृश्य), श्यामवर्णमित्यर्थः / पुनः किंविशिष्टं नेमिम् ? / 'तं' तं प्रसिद्धम् / तच्छब्दो यच्छब्दमपेक्षते / तं कम् ? / यो नेमिः रणमुखे-सङ्ग्रामप्रारम्भे ऊर्जितराजकं-उत्कटराजसमूहं क्षणात्वेगेन चिक्षेप इत्यन्वयः / 'चिक्षेप' इति क्रियापदम् / कः कर्ता ? | ‘यः' / 'चिक्षेप' बभञ्जवित्रासयामास / किं कर्मतापन्नम् ? | ऊर्जितराजकम् / कस्मिन् ? / 'रणमुखे' किंविशिष्टं ऊर्जितराजकम् ? / 'लक्षसख्यं' लक्षशः संख्यात्मकं, यद्वा अकारप्रश्लेषे नास्ति लक्षशः (लक्ष्या) संख्या यत्र तद् अलक्ष्यसंख्यम् / पुनः किंविशिष्टं ऊर्जितराजकम् ? ‘अक्षामं' न दुर्बलं, प्रौढपरिकरमित्यर्थः / च-पुनः यो नेमिः यदूनां-यादवानां राजी श्रेणिः अतीतापदं-गतविपदं चक्रे इत्यन्वयः / 'चक्रे' इति क्रियापदम् / कः कर्ता ? / 'यः' नेमिः / 'चक्रे' कृतवान् / कां कर्मतापन्नम् ? / 'राजी' श्रेणिम् / केषाम् ? / 'यदूनाम्' किंविशिष्टां राजीम् ? / 'दक्षां' कुशलाम् / पुनः किंविशिष्टां राजीम् ? / अतीताअतिक्रान्ता आपद-विपद् यस्याः सा अतीतापत् तां अतीतापदम्' / पुनः किंविशिष्टां राजीम् ? |जनेषुलोकेषु भासमानं दीप्यमानं महः-तेजो यस्याः सा 'जनभासमानमहसम्' / इदमपि विशेषणं नेमिमिति पदेऽपि लगति। एवंविधं श्रीनेमिजिनं भो भव्याः ! यूयं प्रणमत / इति पदार्थः / / अथ समासः-राज्ञां समूहो राजकं, ऊर्जितं-उद्धतं च तद् राजकं च ऊर्जितराजकम् / रणस्य मुखं रणमुखं, तस्मिन् रणमुखे / नास्ति लक्षशः (लक्ष्या) सङ्ख्या यस्मिंस्तद् अलक्षसंख्यम् / न क्षामं अक्षामं, तद् अक्षामम् / जनेषु भासमानं महो यस्य स जनभासमानमहाः, तं जनभासमानमहसम् / न विद्यते हसोहासो यस्य सः अहसः, तं अहसम् / तापं ददातीति तापदः, राजीमत्याः तापदो राजीमतीतापदः, तं राजीमतीतापदम् / अञ्जनस्य भा अञ्जनभा, अञ्जनभया समानः अञ्जनभासमानः, तं अञ्जनभासमानम् / नमनशीला नम्राः, नम्राणां निर्वृतिः नम्रनिर्वृतिः, नम्रनिर्वृितिं करोतीति नम्रनिर्वृतिकरः, तं नम्रनिर्वृतिकरम् / अतीता-गता आपद् यस्याः सा अतीतापत्, तां अतीतापदम् / इति प्रथमवृत्तार्थः / 1 / / शार्दूलविक्रीडितम् / / ____दे० व्या०-चिक्षेपोर्जितेति / हे जन ! हे भव्यलोक ! तं नेमि-नेमिनाथं त्वं नम-नमस्कुरु इत्यन्वयः / ‘णम प्रहीभावे' धातुः / 'नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? /