________________ 352 शोभनस्तुति-वृत्तिमाला 'राजीमतीतापदम्' राजीमती उग्रसेनधारिण्योः पुत्री तस्याः तापं ददातीति तापदः तम् / ‘आतोऽनुपसर्गे कः' (पा० अ० 3, पा० 2, सू० 3) / प्रव्रज्याग्रहणेन तन्मनोरथविफलीकरणादिति भावः / पुनः कथंभूतम् ? | ‘नम्रनिर्वृतिकरं' नम्राणां-नमनशीलानां निर्वृति-सौख्यं शिवं वा करोतीति तथा तम् / पुनः कथंभूतम् ? / 'अञ्जनभासमानमहसं' अञ्जनं-कज्जलं तस्य भा-कान्तिः तया समान-सदृशं महः-तेजो यस्य स तथा तम् / “महश्चो(स्तू?)त्सवतेजसोः” इत्यमरः (श्लो० 2797) / श्यामशरीरत्वेन कज्जलप्रभासाधर्म्यम् / तमिति तच्छब्दाविनाभावित्वाद् यच्छब्दघटनामाह-यो नेमिः ऊर्जितराजकं-बलवद्राजसमूह रणमुखे-सङ्ग्रामारम्भे क्षणात्-क्षणमात्रेण चिक्षेप-निरस्तवानित्यर्थः / 'क्षिप प्रेरणे' धातोः परोक्षे परस्मैपदे प्रथमपुरुषैकवचनं णप् / 'द्विश्च' (सा० सू० 710) इति धातोद्धित्वम् / 'सस्वरादिर्द्विरद्विः' (सा० सू० 711) इति कषयोर्मध्ये कस्य स्वरसहितस्य द्वित्वम् / तथा च किक्षि इति जाते 'कुहोश्चः' (सा० सू० 746) इति चुत्वम् / 'उपधाया लघोः' (सा० सू० 735) इति गुणः / तथा च ‘चिक्षेप' इति सिद्धम् / अत्र 'चिक्षेप' इति क्रियापदम् / कः कर्ता ? | यः / कं कर्मतापन्नम् ? / 'राजकं' राज्ञां समूहो राजकम् / 'गोत्रोक्षोष्ट्रोरभ्रराज०' (पा० अ०४, पा० 2, सू० 39) इति वुञ् / ऊर्जा-बलं जातमस्य इति ऊर्जितं, ऊर्जितं च तद् राजकं चेति ‘कर्मधारयः' / “स सम्राडथ राजकम् (श्लो० 1474) / राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात्” इत्यमरः (श्लो० 1475) / कस्मिन् ? / रणमुखे / “मुखं निःसरणे वक्रे प्रारम्भोपाययोरपि” इति विश्वः / राजकं कथंभूतम् ? | ‘लक्षसङ्ख्यम्' लक्षाः सङ्ख्या-परिमाणं यस्य तत् तथा / अथवा अकारस्य प्रश्लेषः / अलक्ष्या-अविभाव्या सङ्ख्या यस्मात् तत् तथेत्यर्थः / पुनः कथंभूतम् ? / ‘अक्षामं' न क्षामं अक्षामं, समर्थमित्यर्थः / ‘क्षायो मः' (सा० सू० 1313) इति निष्ठातकारस्य मकारः / पुनर्यच्छब्दं योजयति / च-पुनः यो यदूना-यदुवंशोत्पन्नानां यादवानां राजीपङ्क्तिमतीतापदं चक्रे-कृतवानित्यर्थः / 'डुकृञ् करणे' धातोः कर्तरि परोक्षे आत्मनेपदे प्रथमपुरुषैकवचनम् / 'द्विश्च' (सा० सू० 710) इति द्वित्वम् / 'रः' (सा० सू० 768) इति पूर्वकारस्याकारः / 'कुहोश्शुः' (सा० सू०७४६) इति चुत्वम् / 'ऋ रं' (सा० सू०३९) / ‘स्वरहीनं०' (सा० सू० 36) / तथा 'चक्रे' इति सिद्धम् / अत्र 'चक्रे' इति क्रियापदम् / कः कर्ता ? / यः / कां कर्मतापन्नाम् ? / राजीम् / केषाम् ? / यदूनाम् / कथंभूतां राजीम् ? | ‘अतीतापदं' अतीता-अतिक्रान्ता आपदो-दुरवस्था यस्याः सा ताम् / पुनः कथंभूताम् ? / दक्षां-निपुणाम् / / 85 / / (3) सौ० वृ०-यो द्रव्यभावशत्रून् नामयति-वशीकरोति सः अरिष्टेषु-उपद्रवेषु नेमिः-चक्रमिव भवति तथा गर्भस्थे भगवति जनन्या अरिष्टरलमयं चक्रं शय्यापार्श्वे दृष्टम् / अनेन सम्वन्धेनायातस्य द्वाविंशतितमश्रीअरिष्ट(नेमि)नाम्नो जिनस्य स्तुतेर्व्याख्यानं लिख्यते-चिक्षेपोर्जितेति /