________________ श्रीनेमिजिनस्तुतयः 351 कथं० ? 'अञ्जनभासमानमहसं' अञ्जनभया-कज्जलकान्त्या समान-सदृशं महः-तेजः यस्य स तथा तम् / तमिति तच्छब्दाविनाभावित्वाद् यच्छब्दघटनामाह - य ऊर्जितराजकं-बलवद्राजसमूहं रणमुखेसमरारम्भे क्षणाद्-वेगेन चिक्षेप-निरस्तवान् / अत्रापि 'चिक्षेप' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? (ऊर्जित)राजकम्' / कस्मिन् ? 'रणमुखे' / कथम् ? 'क्षणात्' / (ऊर्जित)राजकं कथंभूतम् ? 'लक्ष्यसङ्ख्य लक्ष्या सङ्ख्या यस्य तत् तथा / अथवा अकारप्रश्लेषेण अलक्ष्या-अविभाव्या सङ्ख्या -परिमाणं यस्य तत् तथा / पुनः कथं० ? 'अक्षामं’ समर्थम् | पुनर्यच्छब्दयोजनामाह - च-पुनः यो यदूनां-यादवानां राजी श्रेणी अतीतापदं-अतिक्रान्तविपदं चक्रे-कृतवान् / अत्रापि 'चक्रे' इति क्रियापदम् / कः कर्ता ? 'यः' / कां कर्मतापन्नाम् ? 'राजीम्' / केषाम् ? 'यदूनाम्' / राजी कथंभूताम् ? 'अतीतापदम्' / पुनः कथंभूताम् ? 'दक्षां' असम्मूढाम् / / अथ समासः-राज्ञां समूहः राजकम् / ऊर्जितं च तद् राजकं च ऊर्जित० 'तत्पुरुषः' / तद् ऊर्जित० / रणस्य मुखं रणमुखं 'तत्पुरुषः' / तस्मिन् रणमुखे / लक्ष्या सङ्ख्या यस्य तद् लक्ष्यसङ्ख्यं 'बहुव्रीहिः' / अथवा न लक्ष्या अलक्ष्या 'तत्पुरुषः' / अलक्ष्या सङ्ख्या यस्य तद् अलक्ष्यसङ्ख्यं 'बहुव्रीहिः' / न क्षामं अक्षामं तत्पुरुषः' / तद् अक्षामम् / जनैर्भासमानः जन० 'तत्पुरुषः' / तं जन० / न विद्यते हसो यस्य सः अहसः ‘बहुव्रीहिः' / तं अहसम् / तापं ददातीति तापद: 'तत्पुरुषः' / राजीमत्यास्तापदो राजी० 'तत्पुरुषः' / तं राजी० / निर्वृतिं करोतीति निर्वृतिकरः 'तत्पुरुषः' / नम्राणां निर्वृतिकरो नम्रनि० 'तत्पुरुषः' तं नम्र० / अञ्जनस्य भा अञ्जनभा 'तत्पुरुषः' / अञ्जनभया समानं अञ्जन० 'तत्पुरुषः' / अञ्जनभासमानं महो यस्य सः अञ्जनभासमानमहाः 'तत्पुरुषः' / तं अञ्जन० / अतीता आपदो यस्याः सा अतीतापत् ‘बहुव्रीहिः' / तां अती० / इति काव्यार्थः / / 85 / / (2) सि० वृ०-चिक्षेपोर्जितेति / हे जन ! त्वं तं नेमि-नेमिनामानं जिनं नम-प्रणिपत इत्यर्थः / ‘णम प्रहृत्वे शब्दे च' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘नम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / 'नेमिं' धर्मचक्रस्य नेमिवन्नेमिः ते नेमिम् / नेमिशब्द इन्नन्तोऽप्यस्ति, “नेमिनं नौमि भक्त्या” इति प्रयोगात् / कथंभूतं नेमिम् ? / 'भासमानं' भासते-शोभते इति भासमानः तं भासमानं,यदिवा जनैर्भास(मा)नं जनभासमानम् / एतत्पक्षे संबोधनमध्याहृत्य वाच्यम् / पुनः कथंभूतम् ? / 'अहसं' न विद्यते हासो-हास्यं यस्य स तथा तम् / “घर्घरो हासिका हास्यं, हासस्तु हसनं हसः” इति हैमः (का० 2, श्लो० 210) / पुनः कथंभूतम् ? | 1. पूर्वापरीभावस्तु मुद्रिते अभिधानचिन्तामणिनामके ग्रन्थे /