________________ 350 शोभनस्तुति-वृत्तिमाला 22. श्रीनेमिजिनस्तुतयः अथ श्रीनेमिनाथाय नमस्कार:चिक्षेपोर्जितराजकं रणमुखे योऽलक्ष्यसङ्ख्यं क्षणा दक्षामं जन ! भासमानमहसं ‘राजीमती' तापदम् / - तं 'नेमिं' नम नम्रनिर्वृतिकरं चक्रे यदूनां च यो दक्षामञ्जनभासमानमहसं राजीमतीतापदम् / / 1 / / 85 // - शार्दूल० ज०वि०-चिक्षेपोर्जितेति / हे जन ! त्वं तं नेमि-नेमिनामानं जिनं नम-प्रणिपत इति क्रियाकारकसंयोजनम् / अत्र 'नम' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'नेमिम्' / कथंभूतं नेमिम् ? 'भासमान' विराजमानम्, अथवा जनै समानं 'जनभासमानम्' / एतत्पक्षे सम्बोधनमध्याहृत्य वाच्यम् / पुनः कथं० ? अहसं' अविद्यमानहासम् | पुनः कथं० ? राजीमतीतापदं' राजीमती-उग्रसेनपृथिवीपतेः पुत्री तस्यास्तापदम्, सम्भोगमनोरथविफलीकरणात् तापदायिनम् / पुनः कथं० ? 'नम्रनिर्वृतिकरं' नम्राणां-नमनशीलानां निर्वृतिः-सौख्यं शिवं वा करोति स तथा तम् / पुनः 1. 'लक्षसङ्ख्यं' इत्यपि पाठः 'जनभासमानं' इत्यपि संभवति /