________________ श्रीनमिजिनस्तुतयः 349 (6) अवचूरिः काली देवी वो-युष्माकं विपक्षव्यूह-प्रतीपपटलं दलयतु-पिनष्टु / किंविशिष्टा ? / गदाआयुधविशेषः अक्षावलिः-अक्षमाला च ते धरतीति / असमा-रूपैश्वर्यादिना अनन्यसदृक् / नालीकानांकमलानामाली-श्रेणी तद्वद् विशदौ-निर्मलौ चलनौ-पादौ यस्याः सा / नालिकवरं-प्रधानकमलं समध्यासीना-अधिरोहन्ती अधिरूढा वा / अम्भोभृतः पयःपूर्णो यो घनो-मेघस्तस्य निभा-कृष्णवर्णत्वात् समा / अम्भोधितनयासमाना-लक्ष्मीतुल्या आल्यः-सख्यो यस्याः (सा) / विशन्तो-लीयमाना अचलाःस्थिरा नाना-बहुविधा येऽलयो-भ्रमरास्तैः कबरं-मिश्रं खचितमित्यर्थः / इदं नालिकवरस्य विशेषणम् // 4 / 21 / 84 //