________________ 348 शोभनस्तुति-वृत्तिमाला विशन्तश्च ते अचलनानालयश्च विशदचलनानालयः, विशदचलनानालिभिः कबरं विशदचलनानालिकवरम् / इत्येकविंशतितमश्रीनमिनाथजिनस्तुतिः // 4 / 21 / 84 // (4) दे० व्या०-विपक्षेति / काली देवी वो-युष्माकं ‘विपक्षव्यूह' विपक्षाः-शत्रवः तेषां व्यूह-समूह दलयतु-मर्दयतु इत्यन्वयः / 'दलयतु' इति क्रियापदम् / का की ? / काली / किं कर्मतापन्नम् ? | विपक्षव्यूहम् / किंविशिष्टा देवी ? / 'गदाक्षावलिधरा' गदा-शस्त्रविशेषः अक्षावलिः-जपमाला अनयो ‘र्द्वन्द्वः', ते बिभर्ति-धारयतीति तथा / पुनः किंविशिष्टा ? | ‘असमा' नास्ति बलेनेति शेषः समः-सदृशो यस्याः सा तथा / पुनः किंविशिष्टा ? / 'नालीकालीविशदचलना' नालीकं-कमलं तस्य आली-परम्परा तद्वद् विशदौ-उज्ज्वलौ चलनौ (-पादौ) यस्याः सा तथा / “विसप्रसूतं नालीकं" इत्यभिधानचिन्तामणिः (का० 4, श्लो० 227) / पुनः किंविशिष्टा ? / समध्यासीना-अध्यारूढा / किम् ? / नालिकवरं-प्रधानकमलम् / नालिकेषु वरं नालिकवरं इति समासः / बवयोरभेदादत्र वकारस्थाने बकारग्रहणम् / पुनः किंविशिष्टा ? / 'अम्भोभृतघननिभा' अम्भः-पयस्तेन भृतः-पूर्णो यो घनो-मेघः तेन निभा-सदृशा, सजलजलधरवत् कृष्णवर्णेत्यर्थः / पुनः किंविशिष्टा ? / 'अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तस्याः समानाः सदृशाः आल्यः-सख्यो यस्याः सा तथा / किंविशिष्टं नालिकवरम् ? / 'विशदचलनानालिकबरम्' विशन्तो-निलीयमानाः अचलाः-स्थिरा नाना-अनेके ये अलयों-भ्रमराः तैः कबरं-मिश्रितम् / “करम्बः कबरो मिश्रः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 105) / / इति तुरीयवृत्तार्थः // 4 / 21 / 84 // ध० टीका-विपक्षेति / ‘विपक्षव्यूह' शत्रुसन्दोहम् / 'वः' युष्माकम् / 'दलयतु' पिनष्टु / ‘गदाक्षावलिधरा' गदां अक्षावलिं धारयति या सा / 'असमा' असदृशी / ‘नालीकालीविशदचलना' नालीकाली-पद्मपङ्क्तिः तद्वद् विशदौ-उज्ज्वलौ चलनौ यस्याः सा / 'नालिकवरं' प्रधानपद्मम् / 'समध्यासीना' सम्यग् अधिरोहन्ती / ‘अम्भोभृतघननिभा' जलभरितमेघप्रभाश्यामेत्यर्थः / 'अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तस्याः असमाना-अनन्यसमा आली-सखी या सा / 'काली' कालीसंज्ञिता / 'विशदचलनानालिकबरं' विशद्भिः-निलीयमानैः अचलैः-स्थिरैर्नानालिभिः-विचित्रमधुकरैः कवरं-कर्बुरं यत् तत् / नालिकवरं समध्यासीना काली विपक्षव्यूहं वो दलयतु इति योगः // 4 / 21 / 84 // 1. यथा प्रत्येकस्तुतिचतुष्टयसमाप्तौ पद्यं दृश्यते, तथाऽत्र न इति विशेषः /