________________ श्रीनमिजिनस्तुतयः 347 पुनः कथंभूता ? | ‘अम्भोधितनयासमानाली' अम्भोधितनया-लक्ष्मीः तया समानाः-तुल्याः आल्यःसख्यो यस्याः सा तथा / “क्षीराब्धितनया रमा” इत्यमरः (?) “हरिप्रिया पद्मवासा क्षीरोदतनयाऽपि च” इति हैमः (का० 2, श्लो० 140) / शिखरिणीवृत्तम् / / “रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी" इति च लक्षणमुन्नेयम् / / 84 // // इति महामहोपाध्याय० श्रीनमिनाथजिनस्य स्तुतिवृत्तिः // 4 / 21 / 84 / / (3) सौ० वृ०-विपक्षेति / कालीनाम्नी देवी वो-युष्माकं विपक्षाः-वैरिणः तेषां व्यूहः-समूहः तं विपक्षव्यूहं दलयतु इत्यन्वयः / ‘दलयतु' इति क्रियापदम् / का कर्जी ? | 'काली' / 'दलयतु' पिनष्टु / कं कर्मतापन्नम् ? / 'विपक्षव्यूहम्' / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टा काली ? / 'गदाक्षावलिधरा' गदा-प्रहरणविशेषः अक्षावलिः-जाप्यमाला ते द्वे धरतीति गदाक्षावलिधरा / पुनः किंविशिष्टा काली ? / 'असमा' लावण्यैश्वर्यादिगुणैर्नान्यसदृशी | पुनः किंविशिष्टा काली? / नालीकानि-कमलानि तेषां आलीश्रेणिः तद्वद् विशदौ-निर्मलौ चलनौ-चरणौ यस्याः सा 'नालीकालीविशदचलना' / पुनः काली किं कुर्वाणा ? | सम्यक् प्रकारेण अध्यासीना-आरूढा 'समध्यासीना' / किं कर्मतापन्नम् ? / 'नालिकवरं' कमलेषु प्रधानं, ववयोरैक्यं यमकत्वात् / पुनः किंविशिष्टा काली ? / अम्भोभिः भृतः-पूर्णो यो घनोमेघः तस्य (तेन?) निभा-सदृशी, घनश्यामवर्णा | पुनः किंविशिष्टा काली ? / अम्भोधिः-समुद्रः तस्य तनया-लक्ष्मीः तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधितनयासमानाली / किंविशिष्टं नालिकवरम् ? / विशन्तः-प्रविशन्तः अचलाः-स्थिरा-लीना नानाप्रकारा-विचित्रा अलयः-अलिनो वा तैः कबरं-मिश्रितं 'विशदचलनानालिकबरम्' / बवयोरैक्यम् / एवंविधा काली देवी युष्माकं विपक्षव्यूह पिनष्टु इति पदार्थः / / अथ समासः-विरुद्धपक्षा विपक्षाः, विपक्षाणां व्यूहः विपक्षव्यूहः, तं विपक्षव्यूहम् / अक्षाणां आवलिः (अक्षावलिः), गदा च अक्षावलिश्च गदाक्षावली, गदाक्षावली धारयतीति गदाक्षावलिधरा, न विद्यते समा-सदृशी यस्याः सा असमा, नालीकानामाली नालीकाली, नालीकालीवत् विशदौ चलनौ यस्याः सा नालीकालीविशदचलना / नालिकेषु वरं तद् नालिकवरम् / सम्यक् प्रकारेण अध्यासीना समध्यासीना / अम्भोभिः भृतः अम्भोभृतः, अम्भोभृतश्चासौ घनश्च अम्भोभृतघनः, अम्भोभृतघनस्य (घनेन?) निभा अम्भोभृतघननिभा / अम्भांसि धीयन्ते अस्मिन्निति अम्भोधिः, अम्भोधेस्तनया अम्भोधितनया-लक्ष्मीः, तया समाना-सदृशी आली-सखी यस्याः सा अम्भोधितनयासमानाली / नानाविचित्राः अलयः अलिनो वा नानालयः, न चला अचला; अचलाश्च ते नानालयश्च अचलनानालयः,