________________ 346 शोभनस्तुति-वृत्तिमाला नालीकालीविशदौ चलनौ यस्याः सा नाली० 'बहुव्रीहिः' / नालीकेषु वरं नालीक० 'तत्पुरुषः' / अम्भोभिर्भूतः अम्भोभृतः 'तत्पुरुषः' / अम्भोभृतश्चासौ घनश्च अम्भो० 'कर्मधारयः' / अम्भोभृतघनवत् निभा यस्याः सा अम्भोभृत० 'बहुव्रीहिः' / अम्भोधेस्तनया अम्भोधि० 'तत्पुरुषः' / न समाना असमाना 'तत्पुरुषः' / असमाना चासौ सखी च असमा० 'कर्मधारयः' / अम्भोधितनयाया असमानसखी अम्भोधि० 'तत्पुरुषः' / नाना-विधाश्च ते अलिनश्च नानालिनः ‘कर्मधारयः' / न चला अचलाः 'तत्पुरुषः' / अचलाश्च ते नानालिनश्च अचलनाना० 'कर्मधारयः' / विशन्तश्च ते अचलनानालिनश्च विशदचल० 'कर्मधारयः' / विशदचलनानालिभिः कबरं विशद० 'तत्पुरुषः' / तद् विशद० / इति काव्यार्थः / / 84 / / // इति शोभनस्तुतिवृत्ती श्रीनमिजिनपतेः स्तुतेर्व्याख्या // 4 / 21 / 84 // (2) सि० वृ०-विपक्षेति / काली-कालीनाम्नी महादेवी वो-युष्माकं विपक्षव्यूह-शत्रुवातं-वैरिसमूह दलयतु-विनाशयतु इत्यर्थः / 'दल दलने' धातोर्ण्यन्तस्य ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'चुरादेः [ञिः]' (सा० सू० 1039) इति ञिः / ‘अप् कर्तरि' (सा० सू० 691) इत्यप् / ‘गुणः' (सा० सू० 692) इति गुणः / ‘ए अय्' (सासू० 41) / ‘स्वरहीनं०' (सा० सू० 36) / तथा च ‘दलयतु' इति सिद्धम् / अत्र ‘दलयतु' इति क्रियापदम् / का की ? / काली / कं कर्मतापन्नम् ? / 'विपक्षव्यूह' विपक्षाणां-शत्रूणां व्यूहो-निकरस्तम् / “व्यूहः स्याद् बलविन्यासे, निर्माणे वृन्दतर्कयोः” इति विश्वः / केषाम् ? / वः / षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः / कथंभूता काली ? | 'गदाक्षावलिधरा' गदा-शस्त्रविशेषः अक्षावलिः-माला गदा च अक्षावली च गदाक्षावली ‘इतरेतरद्वन्द्वः', ते धरतीति गदाक्षावलिधरा | पुनः कथंभूता ? / असमा-असदृशी, निरुपमेत्यर्थः / पुनः कथंभूता ? | 'नालीकालीविशदचलना' नालीकानां-कमलानामालिः-श्रेणी तद्वद् विशदौ-निर्मलौ (चलनौ-) पादौ यस्याः सा तथा / काली किं कुर्वाणा ? / समध्यासीना-सम्यगधिरोहन्ती / कम् ? / 'नालीकवरं' नालं विद्यते येषु तानि नालीकानि तेषु नालीकेषु-कमलेषु वरं-प्रधानं नालीकवरम् / कथंभूतं नालीकवरम् ? / 'विशदचलनानालिकबरं' विशन्तो-निलीयमानाः अचलाः-स्थिराः एवंभूता ये नाना-विविधप्रकाराः अलयो-भ्रमराः तैः कबरं-कधुरम् / विशन्तश्च ते अचलाश्च ते नानालयश्च विशदचलनानालय इति पूर्व 'कर्मधारयः' / अत्र यमकवशाद् बवयोरैक्यम् / काली पुनः कथंभूता ? / 'अम्भोभृतघननिभा' अम्भःजलं तेन भृतः-पूर्णः यो घनः-मेघः तेन निभा-तुल्या या सा तथा, सजलजलधरवन्नीलवर्णेति फलितार्थः / 1. अम्भोभृतघनेन निभा अम्भो० 'तत्पुरुषः' इति प्रतिभाति / /