________________ श्रीनेमिजिनस्तुतयः 361 युष्मच्छब्दविशेषादेशत्वात् सम्बोधनपदादग्रे कथं प्रयुक्तः ? [यदुक्तम्] “सम्बोधनपदादग्रे न भवन्ति वसादयः” (सा० सू० 344) इत्याशङ्कनीयम् / मे इत्यस्य षष्ट्यन्तप्रतिरूपाव्ययत्वात् निपातत्वेन युष्मच्छब्दविशेषादेशाभावादिति / भारती किं कुर्वाणा ? / 'कुर्वाणा' कुरुत इति कुर्वाणा-विदधाना / काम् ? / त्रपां-लज्जाम् / कस्याः ? / 'भास्वत्प्रभायाः' भास्वान्-सूर्यः तस्य प्रभा-प्रकाशः तस्याः / कस्मात् ? / 'अणुपदार्थदर्शनवशात्' अणवः-सूक्ष्मा ये पदार्थाः-निगोदजीवपरमाण्वादयः तेषां दर्शनव्यक्तीकरणं तस्माद् / भारती सूक्ष्मानपिपदार्थान् दर्शयति, नत्वहं तद्दर्शने समर्थेति तया जिताऽस्मीत्येवंशीला भास्वत्प्रभायास्त्रपां करोतीति भावः / भारती कथंभूता ? / शस्ता-प्रशस्ता / पुनः कथंभूता ? / 'अदरिद्रोहिका' अदरिद्रा-अतुच्छा ऊहा यस्यां सा | स्वार्थे कन् / पुनः कथंभूता ? | ‘अक्षोभ्या' न क्षोभयितुंचालयितुं शक्या-अक्षोभ्या / पुनः कथंभूता ? / ‘मानत्याजनकृत्' मानः-अभिमानः तस्य त्याजनं-मोक्षणं करोतीति तथा / 'क्विप्' (सा० सू० 1249) / 'इस्वस्य पिति कृति०' (सा० सू० 1246) इति तुक् / केषाम् ? / वादिनां-परतीर्थिकानाम् / कथंभूतानां वादिनाम् ? / 'प्रोन्मादिनां' प्रकर्षण उन्मादः-चित्तविप्लवो येषां ते तथा तेषाम्, प्रकर्षणोन्मादवतामित्यर्थः, दोदसमञ्जसचेष्टावतामिति भावः / पुनः कथंभूता भारती ? / 'तमोहरतमा' अतिशयेन तमः-अज्ञानं हरति-नाशयतीति तथा / अतिशयार्थे तमप् / अवशिष्टे च द्वे जिनपतेः सम्बोधने, तयोस्त्वेवं व्याख्या हे 'जनकृत्तमोहरत ! जनानां-लोकानां कृत्ते-छिन्ने मोहरते येन स तथा तस्य सम्बो० हे जन० / मोहो-मोहनीयं कर्म रतं-कामकेलिः, मोहश्च रतं च मोहरते ‘इतरेतरद्वन्द्वः' / हे ईश !-स्वामिन् ! कया कृत्वा ? / आनत्या-प्रणामेन / / 87 / / . (3) सौ० वृ०-कुर्वाणेति / हे जिनपते ! हे जिनराज ! हे ईश!-स्वामिन् ! पुनर्जनानां-लोकानां कृत्तेछेदिते मोहः-अज्ञानं रतं-सुरतं येन स जनकृत्तमोहरतः तस्य सं० हे जनकृत्तमोहरत ! तव-भवतः भारतीवाणी मे-मम अरिद्रोहिका-शत्रुविनाशिनी स्तादित्यन्वयः / ‘स्ताद्' इति क्रियापदम् / का की ? / 'भारती' / 'स्ताद्' भवतु / भारती कस्य ? / 'तव' / किंविशिष्टा ? 'अरिद्रोहिका' / कस्य ? / 'मे' मम / किंविशिष्टा भारती ? | 'शस्ता' प्रशस्ता / पुनः किंविशिष्टा भारती? / 'कुर्वाणा' विदधाना / कां कर्मतापन्नाम् ? / 'त्रपां' लज्जाम् / कस्याः ? / भास्वान्-सूर्यः तस्य प्रभा-कान्तिः तस्याः 'भास्वत्प्रभायाः', सूर्यकान्तेरपि लज्जां कुर्वतीत्यर्थः / कस्मात् ? / अणुः-परमाणुः स एव पदार्थः द्रव्यरूपतया (तस्य) दर्शन-अवलोकनं तस्य वशः-स्वायत्तीकरणं ज्ञानेन तस्माद् ‘अणुपदार्थदर्शनवशात्' तद्वशात्-तदायत्तभावत्वात् / इयमणुपदार्थान् दर्शयति न तु अहं, अतोऽहं जिताऽस्मि इत्येवंरूपां भास्वत्प्रभायास्त्रपां करोतीति / पुनः किंविशिष्टा भारती ? / तमः-अज्ञानं तत् प्रति हरतीति तमोहरा, 1./2. पूर्ववदत्राऽपि ‘अस्मद्' इत्यावश्यकम्, एवमग्रेऽप्युन्नेयम् /