________________ श्रीविमलजिनस्तुतयः 207 वशीकृतम् / पुनः किंविशिष्टम् ? / 'तामरसभासुरम्' तामरसं-कमलं तद्वद् भासुरं-दीप्तम् / पुनः किंविशिष्टम् ? / 'आलयामोदितम्' आलये-गृहे अमोदितं-अहर्षितम् / / इति प्रथमवृत्तार्थः / / 49 / / ____ध० टीका-अपापदेति / 'अपापदं' न पापं ददातीति यत् तत् / ‘अलं' अत्यर्थम् / अथवा पापहेतुत्वात् पापं, न पापं अपापं, न विद्यते वा यत् तद् अपापम्, दमं लातीति दमलं, अपापं च तत् दमलं चेति अपापदमलम् / 'घनं' अच्छिद्रं-अशेषमलक्षयोत्थमित्यर्थः, तत् तथाभूतम् / 'शं' सुखम् / 'इतं' प्राप्तम् / 'आनमामः' प्रणमामः / ‘हितं' हितकारणम् / 'नतामरसभासुरं' नता अमरसभा सुराश्च यस्य तम्, अथवा नता अमराः सभाः-सदीप्तिका असुराश्च यस्य तम् / 'विमलमालया' विगतमला या माला-स्रक तया / 'आमोदितं' सुरभीकृतम् / ‘अपापदं' अपगता आपदो यस्य तम् / ‘अलङ्घनं' न विद्यते लङ्गनं-अधःकरणं कुतोऽपि यस्य तम् / 'शमितमानं' शमितः-शमं नीतो मानो येन तम् / 'आमोहितं' आ-समन्तात् मोहं नीतम् / 'न' झत प्रतिषेधपदं अस्य सम्बध्यते / 'तामरसभासुरं' र'मरसवद् भासुरंउज्ज्वलम् / 'विमलं' विमलाभिधानं जिनम् / 'आलयामोदितं' आलया-आवासास्तैरमोदितं-न मोदं नीतम् / विमलं आनमाम इत्यन्वयः / / 49 / / अवचूरिः विमलं जिनं वयमानमामः / पापं ददातीति पापदः, न पापदमपापदम्, पुण्यप्रदमित्यर्थः / अलंअत्यर्थम् / यद्वा अपापो यो दमः-उपशमस्तं लातीति अपापदमलम् / घनं-निश्छिद्रं अशेषमलक्षयोत्थं शंसुखमितं-प्राप्तम् / हितं प्राणिगणस्य / नता-नम्रीभूता अमरसभा-देवपर्षदसुराश्च यस्य / विमला या मालापुष्पस्रक तयाऽऽमोदितं-सुरभीकृतम् / अपगता आपदो यस्मात् तम् / अलङ्घन-केनाप्यपराभूतम् / शमितो मानो येन तम् / आमोहितं न, मोहेन समन्तान्न वशीकृतम् / तामरसं-कमलं तद्वद् भासुरंदीप्यमानम् / आलये-गृहविषये अमोदितं-अहृष्टम् / / 49 / / - समस्तजिनेश्वराणां नुतिः. सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासु ते सकलभारतीरा यताः। - 1. 'तेऽसकल०' इति पाठान्तरम् /