________________ 206 शोभनस्तुति-वृत्तिमाला कथम् ? / 'न' निषेधे / अमोहितमित्यर्थः / पुनः किं० विमलम् ? / तामरसं-महोत्पलं तद्वद् भासुरःदेदीप्यमानः तं 'तामरसभासुरम्' | पुनः किं० विमलम् ? | विमला-निर्मला या माला-पुष्पस्रक तया विमलमालया आमोदितं-सुरभीकृतम् / पुनः किं० विमलम् ? / आलयं-गृहं तैः अमोदितः-न मोदं गतः तं 'आलयामोदितम्' / एवंविधं विमलं प्रणमामः / इति पदार्थः / / / अथ समासः-पापं ददातीति पापदः, न पापदः अपापदः,तं अपापदम् / यद्वा न विद्यते पापं यस्मिन् सः अपापः / अपापो दमो यस्य सः अपापदमः तं अपापदमम् / लभ्यते-उल्लङ्घयते-अधःक्रियते इति लङ्घनम्, नास्ति लङ्घनं यस्य सः अलङ्घनः, तं अलङ्घनम् / शं-सुखं इतः-प्राप्तः शमितः, तं शमितम् / यद्वा शमः-उपशमः सञ्जातो यस्य स शमितः, तं शमितम् / अमराणां सभा अमरसभा, अमरसभा च. असुराश्च अमरसभासुराः, नता अमरसभासुरा यस्य स नतामरसभासुरः, तं नतामरसभासुरम् / विगतो मलो यस्य स विमलः, तं विमलम् / आलयैः-गृहैः गृहाणां वा न मोदितः आल०, तं आलयामोदितम् / नास्ति गृहममकार इत्यर्थः / अपगताः आपदो यस्य स अपापदः, तं अपापदम् / शमितः-क्षयं नीतो मानःअहङ्कारो येन स शमितमानः, तं शमितमानम् / आ-समन्तात् मोहितः आमोहितः, तं आमोहितम् / कथम् ? / 'न' निषेधे / विमला चासौ माला च विमलमाला, तया विमूलमालया / तामरसवद् भासुरः तामरसभासुरः, तं तामरसभासुरम् / मोहः संजातोऽस्य इति मोहितः, न मोहितः अमोहितः, तं अमोहितम् / इति प्रथमवृत्तार्थः / पृथ्वीच्छन्दसा स्तुतिरियम् अर्धपादयमकेन / / 49 / / / (4) दे० व्या०–अपापदमलमिति / विमलं-विमलनाथं वयं अलं-अत्यर्थं यथा स्यात् तथा आनमामः इत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / 'आनमामः' इति क्रियापदम् / के कर्तारः ? / वयम् / कं कर्मतापन्नम् ? / विमलम् / किंविशिष्टं विमलम् ? / 'अपापदम्' न पापं ददातीत्यपापदः तम् / अपापःपापरहितो यो दमस्तं लाति गृह्णातीत्यपापदमलः तं इति एकपदमेव वा / पुनः किंविशिष्टम् ? / 'शमितम्' शं-सुखं (इतं-) प्राप्तं येन स तम् / पुनः किंविशिष्टम् ? / हितं-हितकारकम्, मोक्षमार्गप्रदर्शनात् / पुनः किंविशिष्टम् ? / 'नतामरसभासुरम्' नता-प्रवीभूता अमरसभा-देवपर्षत् असुरा-भुवनपतयश्च यस्य स तम्, अथवा नता-नम्रीभूता अमरा-देवाः (सभा-भासहिताः) असुराश्च यस्य स तम् / पुनः किंविशिष्टम् ? / मोदितं-सुरभीकृतम् / कया ? / 'विमलमालया' विमला-निर्मला या माला-पुष्पसक तया / पुनः किंविशिष्टम् ? / 'अपापदम्' / अपगता आपद्-विपत्तिर्यस्य स तम् / पुनः . किंविशिष्टम् / ‘अलङ्घनम्' नातिक्रमणीयं, सर्वेषामपि पूज्यत्वात् / पुनः किंविशिष्टम् ? / 'शमितमानम्' शमितः-शान्तिं नीतः मानः-स्मयो येन स तम् / पुनः किंविशिष्टम् ? / 'नामोहितम्' मोहेन आ-समन्तान्न