________________ श्रीविमलजिनस्तुतयः भूषणपर्याप्ति-वारणेषु निरर्थके / अलं शक्तौ च निर्दिष्टं” इति विश्वः / यद्वा अपापदमलमित्यक्षतमेव विशेषणे / तथा च अपापः-निष्पङ्को यो दमः-उपशमः तं लाति-गृह्णातीति अपापदमलस्तं अपापदमलमित्यर्थः / पुनः कथंभूतम् ? / इतं-प्राप्तम् / किम् ? / शं-सुखम् / “शं सुखेऽपि च कल्याणे” इति विश्वः / कथंभूतं शम् ? / घनं-निरन्तरम्, निखिलकर्मक्षयोत्थमित्यर्थः / “घनो मेघे मूर्तिगुणे, त्रिषु मूर्ते निरन्तरे” इत्यमर (?) / पुनः कथंभूतं विमलम् ? / हितं-हितकारकम् / ‘दधातेर्हिः' (सा० सू० 1305) / पुनः कथंभूतम् ? / 'नतामरसभासुरं' नता-नम्रीभूता अमरसभा अमराणां-देवानां सभा-पर्षत् असुराःभुवनपतिदेवविशेषाश्च यस्य, यद्वा अमरदेवाः सभाः-भासहिताः असुराश्च यस्य स तथा तम् / पुनः कथंभूतम् ? / आमोदितं-सुरभीकृतम् / कया ? / 'विमलमालया’ विमला-विगतमला माला-स्रक् तया / पुनः कथंभूतम् ? / 'अपापदं' अपगता आपदो यस्मात् स तथा तम् / पुनः कथंभूतम् ? / 'अलकनं' न विद्यते लन-अधःकरणं कुतोऽपि यस्य स तथा तम् / पुनः कथंभूतम् ? / 'शमितमानं' शमितःशमं-क्षयं नीतः मानः-अभिमानो येन. स तम् / पुनः कथं० ? / 'न आमोहितं' आ-समन्तात् मोहितम् / नेति निषेधपदम् / पुनः कथंभूतम् ? / 'तामरसभासुरं' तामरसं-कुशेशयं तद्वद् भासुरं-भासनशीलम् / पुनः कथंभूतम् ? / 'आलयामोदितं' आलयैः-आवासैः अमोदितं-न मोदं नीतम्, आलये-गृहे अमोदितंन मुदमापन्नमित्यर्थो वा / त्यक्तगृहवासत्वादिति भावः / / 49 / / सौ० वृ०-यो वासवानां पूज्यो भवति स विगतमलो भवति / अनेन संबन्धेनायातस्य त्रयोदशश्रीविमलजिनस्य स्तुतिव्याख्यानं व्याख्यायते-अपापदमलमिति / वयं विमलनामानं त्रयोदशं (जिन) आनमाम इत्यन्वयः / 'आनमामः' इति क्रियापदम् / के . कर्तारः ? / 'वयम्' / 'आनमामः' प्रणमामः / कं कर्मतापन्नम् ? / 'विमलं' विमलजिनम् / किंवि० विमलम् ? | ‘अपापदं' न पापदायकम् / धर्मदातारमित्यर्थः / यद्वा अपापः-पवित्रः दमः-इन्द्रियादिजयो यस्य सः अपापदमः तं 'अपापदमम्' / कथम् ? / 'अलं' अत्यर्थम् / पुनः किं० विमलम् ? / 'घनं' सान्द्रं निबिडितं (ड) निच्छिद्रम् / पुनः किं० विमलम् ? / शं-सुखम् इतं-प्राप्तं 'शमितम्' / पुनः किं० विमलम् ? / 'हितं' लोकस्य हितकारिणम् / पुनः किं० विमलम् ? / नताः-प्रणता ये अमरा-देवास्तेषां सभा-पर्षत् तादृशास्तथा (?) असुरा-नाग(असुर?)कुमारादयस्तैर्भासुरं-देदीप्यमानं तं 'नतामरसभासुरम्' / पुनः किं विमलम् ? / 'अपापदं' अपगतापदं-गतविपदम् / यद्वा अपापो-निर्मलो दमः तं लाति-गृह्णातीति अपापदमलम् / पुनः किं० विमलम् ? | ‘अलङ्घनं' अनुल्लङ्घनीयवचनम् / पुनः किं० विमलम् ? / 'शमितमान' गताहङ्कारम् / पुनः किं० विमलम् ? / आ-समन्तात् मोहितं व्यामोहितम् / 1. अयमर्थो विचारणीयः /