________________ 204 शोभनस्तुति-वृत्तिमाला अथवा नता अमरा-देवाः सभा-भासहिताः असुरा यस्य स तथा तम् / पुनः कथं० ? 'आमोदितं' सुरभीकृतम् / कया ? 'विमलमालया' विमला-विगतमला या माला-स्रक् तया / पुनः कथं० ? 'अपापदं' अपगता आपदो यस्मात् स तथा तम् / पुनः कथं० ? 'अलंकनं न विद्यते लङ्घनम्-अधःकरणं कुतोऽपि यस्य स तथा तम् / पुनः कथं ? 'शमितमान' शमितः-शमं नीतो मानो येन स तथा तम् / पुनः कथं० ? 'आमोहितं न' आ-समन्तात् मोहितं न / नेति निषेधपदम् / पुनः कथं ? 'तामरसभासुरं' तामरसंमहोत्पलं तद्वद् भासुरं-भासनशीलम् / पुनः कथं० ? 'आलयामोदितं' आलयैः-आवासैरमोदितं-न मोदं नीतम् / यद्वा आलयेऽमोदितं-न मुदमापन्नम्, त्यक्तगृहवासत्वात् / / अथ समासः-पापं ददातीति पापद: 'तत्पुरुषः' / (न पापद: अपापदः 'तत्पुरुषः') / तं अपापदम् / अथवा अपगतं पापं यस्मात् सः अपापः ‘बहुव्रीहिः' / अपापश्चासौ दमश्च अपापदमः 'कर्मधारयः' / अपापदमं लातीत्यपापदमलः 'तत्पुरुषः' / तमपाप० / अमराणां सभा अमरसभा 'तत्पुरुषः' / अमरसभा च असुराश्च अमर० ‘इतरेतरद्वन्द्वः' / नता अमरसभासुरा यस्य स नतामर० 'बहुव्रीहिः' ।तं नतामर० / यदिवा सह भान्ति वर्तन्ते ये ते सभाः 'तत्पुरुषः' / सभाश्च ते असुराश्च सभासुराः 'कर्मधारयाः' / अमराश्च सभासुराश्च अमर० 'इतरेतरद्वन्द्वः' / नता अमरसभासुरा यस्य स नताम० : 'बहुव्रीहिः' / तं नतामर० / विमला चासौ माला च विमलमाला ‘कर्मधारयः' / तया विमल० / अपगता आपदो यस्मात् सः अपापद् ‘बहुव्रीहिः' तमपापदम् / न विद्यते लङ्घनं यस्य सोऽलङ्घनः ‘बहुद्दीहिः' / तमलङ्घनम् / शमितो मानो येन स शमितमानः ‘बहुव्रीहिः' / तं शमि० / तामरसवद् भासुरस्ताम० 'तत्पुरुषः' / तं ताम० / न मोदितः अमोदितः 'तत्पुरुषः' / आलयैरमोदितः आलया० / यद्वा आलये अमोदित आलयामोदितः, उभयथाऽपि 'तत्पुरुषः' / तं आलया० / / इति काव्यार्थः / / 49 / / सि० वृ०-अपापदमलमिति / विमलानि ज्ञानानि अस्य विमलः, विगतो मलः-पापं अस्येति वा विमलः / “मलं किट्टे पुरीषे च, पापे च कृपणे मलः” इति विश्वः / गर्भस्थेऽस्मिन् मातुर्मतिस्तनुश्च विमला जातेति वा विमलः, तं विमलं-विमलनामानमर्हन्तं वयमानमामः-प्रणमाम इत्यर्थः / आपूर्वक ‘णम प्रह्वीभावे' धातोर्वर्तमाने कर्तरि परस्मैपदे उत्तमपुरुषबहुवचनं मस् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्। 'मोरा' (सा० सू० 696) इत्यात्वम् / ‘स्रोर्विसर्गः' (सा० सू० 124) / तथा च ‘आनमामः' इति सिद्धम् / अत्र ‘आनमामः' इति क्रियापदम् / के कर्तारः ? वयम् / कं कर्मतापन्नम् ? / विमलम् / कथंभूतं विमलम् ? ।'अपापदं' न पापं ददातीत्यपापदस्तम् / कथम् ? / अलम्-अत्यर्थम् / “अलं 1. अत्र 'प्रथम' इति पदयोजनम्प्राकरणिकम् /