________________ 342 शोभनस्तुति-वृत्तिमाला अथ समासः-जलं च व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युत् च जलव्याल० 'समाहारद्वन्द्वः' / तस्मात् जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः / पातश्च आपच्च अघं च पातापदघानि इतरेतरद्वन्द्वः' / न विद्यन्ते पातापदघानि यस्याः सा अपाता० ‘बहुव्रीहिः' / अपातापदघा चासौ नगरी च अपाता० कर्मधारयः' / अपातापदघनगर्यां यानं अपाता० 'तत्पुरुषः' / सुष्ठुमतः सुमतः 'तत्पुरुषः' / अपातापदघनगरीयाने सुमतः अपाता० 'तत्पुरुषः' / हेतवश्च प्रमितयश्च हेतु० 'इतरेतरद्वन्द्वः' / विकटाश्च ता हेतुप्रमितयश्च विकट० 'कर्मधारयः' / स्फुटाश्च ता विकटहेतुप्रमितयश्च स्फुटवि० 'कर्मधारयः' / स्फुटविकटहेतुप्रमितीर्भजतीति स्फुटवि० 'तत्पुरुषः' / घनश्चासौ गरीयांश्च घनगरीयान् 'कर्मधारयः' / पदेषु घनगरीयान् पद० 'तत्पुरुषः' / इति काव्यार्थः / / 83 / / .. (2) सि० वृ०-जलव्यालेति / अहो इत्यामन्त्रणे / तच्चैवं योज्यते-अहो भव्याः ! कृतान्तः-सिद्धान्तः असुमतः त्रासीष्ट-रक्षतामित्यर्थः / 'त्रैङ् दैङ् पालनयोः' इति धातोः आशिषि कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनं सीष्ट / ‘सन्ध्यक्षराणामा' (सा० सू० 803) इत्यात्वम् / तथा च 'त्रासीष्ट' इति सिद्धम् / अत्र 'त्रासीष्ट' इति क्रियापदम् / कः कर्ता ? | कृतान्तः / कान् कर्मतापन्नान् ? / असुमतः' असवः-प्राणाः विद्यन्ते येषां ते असुमन्तः तान् / कस्मात् ? / 'जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादि, व्यालः-सर्पः, व्याघ्रः-सिंहः, ज्वलनो-वह्निः, गजः-करी, रुग्-रोगः, बन्धनं-काराक्षेपः, युत्सङ्ग्रामः, जलं च व्यालश्च व्याघश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युच्च जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः ‘इतरेतरद्वन्द्वः' तस्मात् / पुनः कथंभूतः ? | गुरुः-महान् / गृणाति हिताहितमिति गुरुः / 'कृग्रोरुच्च' (उणा० सू० 24) इति उः, उकारान्तादेशो रपरः / पुनः कथंभूतः ? / 'वाहः' वाह्यते इति वाहः, वाह इव वाह-तुरङ्गमः, वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः / कथंभूतः ? / 'अपातापदघनगरीयानसुमतः' पातः-च्यवनं, आपद्-विपत्, अघं-पापं, ततो न विद्यन्ते पापापदघानि यस्यां सा चासौ नगरी अर्थान्मुक्तिरेव तस्यां यानं-गमनं तत्र सुमतः-सुष्ठु संमतः-सुतरामभिप्रेतः, एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः / कृतान्तस्येदं विशेषणमिति कश्चित् / पुनः कथंभूतः कृतान्तः ? / 'स्फुटविकटहेतुप्रमितिभाक्' स्फुटा-अविसंवादिनीः विकटा-अश्लिष्टाः हेतुप्रमितीः-लिङ्गप्रमाणानि भजति यः स तथा / हेतवश्च प्रमितयश्च हेतुप्रमितयः ‘इतरेतरद्वन्द्वः', विकटाश्च ता हेतुप्रमितयश्च विकटहेतुप्रमितयः 'कर्मधारयः', स्फुटाश्च ता विकटहेतुप्रमितीर्भजतीति स्फुटविकटहेतुप्रमितिभाक् / पुनः कथंभूतः ? | 'उरुः'-विशालः / अत्र वा शब्दश्चकारार्थः / तेन उरुश्च विशालश्च / पुनः कथंभूतः ? / 'पाता' पातीति पाता-त्राता दुर्गतिनिपतत्प्राणिनां रक्षकत्वात् इति भावः / पुनः कथंभूतः ? | 'पदघनगरीयान्'