________________ श्रीनमिजिनस्तुतयः 341 ++++++++++++++++++++++++++++++ अवचूरिः यो विश्वं इततमो-गतमोहं प्रचक्रे स जिनेन्द्रसमूहो जयति / कथंभूतः ? / नखांशुश्रेणीभिःनखमयूखसंततिभिः कपिशितनमन्नाकिमुकुट:-पीतीकृतनमद्देवकिरीटः / सदा-शश्वद् नोदीप्रेरणशीलः / कस्य ? / नाना-अनेकरूपा आमयाश्च मलाश्च मदाश्च समाहारद्वन्द्वः, तदेवारिस्तस्य / सदानो-दान-सहितः / दीनानां-कृपणानाम् / अयम्-एषः / अलम्-अतिमात्रम् / अतिशयेन दारैःकलत्रैरीरितो-धैर्याच्चालितो दारेरिततमः, न एवंविधः अदारेरिततमः / / 82 / / सिद्धान्तपरिचयः- . जल-व्याल-व्याघ्र-ज्वलन-गज-रुग्-बन्धन-युधो गुरुर्वाहोऽपातापदघनगरीयानसुमतः / कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा गुरुर्वाऽहो ! पाता पदघनगरीयानसुमतः // 3 // 83 // - शिख० - ज० वि०-जलव्यालेति / अहो इत्यामन्त्रणे तच्चैवं योज्यते-अहो भव्याः ! / कृतान्तः-सिद्धान्तः त्रासीष्ट-रक्ष्यात् इति क्रियाकारकयोजना / अत्र 'त्रासीष्ट' इति क्रियापदम् / कः कर्ता ? 'कृतान्तः' / कान् कर्मतापन्नान् ? 'असुमतः' प्राणिनः / कस्मात् सकाशात् त्रासीष्ट ? 'जलव्यालव्याघ्रज्वलनगजरुग्बन्धनयुधः' जलं-समुद्रादिसम्बन्धि वारि, व्यालः-पन्नगः, व्याघ्रो-द्वीपी, ज्वलनो-वह्निः, गजः-करी, रुग्-जलोदरादिरोगः, बन्धनं-करचरणादिनियन्त्रणं, युत-सङ्ग्रामः, तस्मात् / कृतान्तः कथंभूतः ? 'गुरुः' महान् / पुनः कथं० ? / 'वाहः' वाहः-अश्वः स इव वाहः / वाहो हि ग्रामादियाने सुमतः स्यात् तेनासौ वाहः / कथंभूतः ? 'अपातापदघनगरीयानसुमतः' पातः-च्यवनं, आपद्-विपद्, अघ-पापं, ततो न विद्यन्ते पातापदघानि यस्याः सा चासौ नगरी युक्त्या मुक्तिरेव तस्यां यानं-गमनं तत्र सुमतः-सुष्ठु सम्मतः / एष मुक्तिगमनसाधनमित्यभिप्रेत इत्यर्थः / कृतान्तः पुनः कथं ? 'स्फुटविकटहेतुप्रमितिभाक्' स्फुटाः-अविसंवादिनीः विकटाः-अश्लिष्टाः हेतुप्रमितीः-लिङ्गप्रमाणानि भजतीति यः स तथा / पुनः कथं० ? 'उरुर्वा' अत्र वाशब्दश्चकारार्थः तेन उरुश्च-विशालश्च / पुनः कथं० ? 'पाता' त्राता / पुनः कथंभूतः ? ‘पदघनगरीयान्' पदेषु-वाक्यावयवेषु घनः-अर्थनिबिडः गरीयान्-महत्त्वातिरेकयुक्तः / /