________________ 340 शोभनस्तुति-वृत्तिमाला नानामयाः, नानामयाश्च मलाश्च मदाश्च नानामयमलमदाः, नानामयमलमदा एव अरिः नानामयमलमदारिः, तस्य नानामयमलमदारेः / इतं-गतं तमः-अज्ञानं यस्मात् तद् इततमः / जिनानां अधीशा जिनाधीशाः, जिनाधीशानां निवहः जिनाधीशनिवहः / दानेन सहितः सदानः / अतिशयेन ईरित इति. ईरिततमः, नास्ति दारैः ईरिततमः अदारेरिततमः / इति द्वितीयवृत्तार्थः / / 82 / / (4) दे० व्या०-नखांश्चिति / स जिनाधीशनिवहो-जिनपतिसमूहः अलं-अत्यर्थं जयति-सर्वोत्कर्षण वर्तत इत्यन्वयः / 'जि जये' धातुः / 'जयति' इति क्रियापदम् / कः कर्ता ? | जिनाधीशनिवहः / कथम् ? / अलं-अत्यर्थं यथा स्यात् तथेति क्रियाविशेषणम् / किंविशिष्टो जिनाधीशनिवह: ? / 'कपिशितनमन्नाकिमुकुटः' नमन्तश्च ते नाकिनश्चेति पूर्वं 'कर्मधारयः', ततः कपिशिताः-पिशङ्गीकृताः कधुरीकृता इति यावत् नमन्नाकिना-प्रणमद्देवानां मुकुटाः-किरीटा येनेति ‘तृतीयाबहुव्रीहिः' / “पिशङ्गः कपिशो हरिः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 32) / काभिः ? / 'नखांशुश्रेणीभिः' अंशूनां श्रेण्यः अंशुश्रेण्य इति पूर्वं 'षष्ठीतत्पुरुषः', ततः नखाः-कररुहाः तेषां अंशुश्रेण्यः-किरणसमूह्यः ताभिरिति विग्रहः / किंविशिष्टः ? / नोदी-प्रेरकः / कस्य ? / “नानामयमलमदारेः' आमयो-रोगः, आम आमय आकल्पः (ल्यम्)” इत्यभिधानचिन्तामणिः (का० 3; श्लो० 127), मलः-कर्मलेपः, मद:अहंकृतिः एतेषां 'द्वन्द्वः', पश्चान्नानापदेन 'कर्मधारयः', तेषां अरिः-शत्रुर्यः स तस्य / पुनः किंविशिष्ट: ? / 'सदानः' दानं-वितरणं तेन सह वर्तमानः / केषाम् ? / दीनानां-दुःखितानाम् / पुनः किंविशिष्ट: ? / 'अदारेरिततमः' दाराः-कलत्राणि तैरीरिततमः-अतिशयेन व्याक्षिप्तचेतो नेत्यर्थः / यत्तदोर्नित्याभिसम्बन्धाद् यो जिनाधीशनिवहः विश्वं-विष्टपं इततमः-गततमः चक्रे-चकार / 'डुकृञ् करणे' धातुः / चक्रे' इति क्रियापदम् / कः कर्ता ? | जिनाधीशनिवहः / किं कर्मतापन्नम् ? / विश्वम् / किंविशिष्टं विश्वम् ? / ‘इततमः' इतं-गतं तमः-अज्ञानं यस्य तत् / / इति द्वितीयवृत्तार्थः / / 82 / / (5) ध० टीका-नखांशुश्रेणीभिरिति / 'नखांशुश्रेणीभिः' नखमयूखसन्ततिभिः / ‘कपिशितनमन्नाकिमुकुटः' कपिलितनमत्सुरकिरीटः / 'सदा' शश्वत् / ‘नोदी' प्रेरणशीलः / 'नानामयमलमदारेः' नाना-अनेकरूपा ये आमयाश्च मलाश्च मदाश्च त एवारिस्तस्य / 'इततमः' गतमोहम् / ‘प्रचक्रे' कृतवान् / 'विश्वं' जगत् / 'सः' / 'जयति' सर्वमतिशेते / 'जिनाधीशनिवहः' जिनेन्द्रविसरः / 'सदानः' दानसमेतः / 'दीनानां' कृपणानाम् / 'अयं' एषः / ‘अलं' अतिमात्रम् / ‘अदारेरिततमः' अतिशयेन दारैःकलत्रैरीरितो-धैर्याच्चालितो दारेरिततमः स यो न भवति / य इततमो विश्वं प्रचक्रे स.जिनाधीशनिवहो जयतीति सम्बन्धः / / 82 / /