________________ श्रीनमिजिनस्तुतयः 339 पुनः कथंभूतः ? / सदानः-दानसहितः / केषाम् ? / दीनानां-कृपणानाम् / पुनः कथंभूतः ? / 'अदारेरिततमः' दारैः-स्त्रीभिरीरितो-ध्यानाच्चालितः दारेरितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः, स्त्रीभिर्व्याक्षिप्तचित्तो नेत्यर्थः / अतिशयेऽर्थे तमप् / स इति स कः ? / यो जिनाधीशनिवहः विश्वं-जगद् इततमः-गतमोहं चक्रे-चकारेत्यर्थः / 'डुकृञ् करणे' धातोः परोक्षे आत्मनेपदे प्रथमपुरुषैकवचनम् / 'द्विश्व' (सा० सू० 710) इति द्वित्वम् / 'रः' (सा० सू० 768) इत्यनेन कंकारस्याकार / 'कुहोश्चः' (सा० सू० 746) / 'ऋरं' (सा० सू० 39) / 'स्वरहीनं०' (सा० सू० 36) / तथा च 'चक्रे' इति सिद्धम् / अत्र च 'चक्रे' इति क्रियापदम् / कः कर्ता ? / यः / किं कर्मतापन्नम् ? / विश्वम् / कीदृशम् ? | ‘इंततमः' इतं-गतं तमः-अज्ञानं शोको वा यस्य तद् इततमः / “तमोऽन्धकारे स्वर्भानौ, तमः शोके गुणान्तरे” इत्यमरः (?) / / 82 / / सौ० वृ०-नखांश्चिति / अयं-प्रत्यक्षो मानसगतः स्थापनागतो वा स-प्रसिद्धो जिनाधीशनिवहःतीर्थकरसमूहः सदा-सर्वदा जयतीत्यन्वयः / 'जयति' इति क्रियापदम् / कः कर्ता ? / 'जिनाधीशनिवहः' / 'जयति' सर्वातिशयोत्कर्षेण वर्तते / किंविशिष्टो जिनाधीशनिवहः ? / कपिशिताः-पिञ्जरीकृताः नमन्तो ये नाकिनो-देवास्तेषां मुकुटानि-किरीटानि येन सः कपिशितनमन्नाकिमुकुटः' / नखानां-करजानां अंशवः-किरणास्तेषां श्रेण्यो-राजयः ताभिः नखांशुश्रेणीभिः / किंविशिष्टो जिनाधीशनिवहः ? | 'नोदी' प्रेरणशीलः, वार्यमाणत्वात् / कस्य ? | नानाप्रकारा आमया-रोगाः मलाः-कर्ममलाः मदाः-जात्यादयः त एव अरयः-शत्रवः, जातौ एकवचनम्, नानामयमलमदारिः स तस्य 'नानामय मलमदारेः' / पुनः किंविशिष्टो जिनाधीशनिवहः ? / ‘सः' प्रसिद्धः / तच्छब्दो यच्छब्दमपेक्षते / स कः ? / यो जिनाधीशनिवहः अलम्-अत्यर्थं विश्वं जगद् इतं-गतं तमः-अज्ञानं यस्मात् तद् इततमः-गताज्ञानं प्रचक्रे इत्यन्वयः / ‘प्रचक्रे' इति क्रियापदम् / कः कर्ता ? / 'यः' 'जिनाधीशनिवहः / 'प्रचक्रे' प्रकर्षेण कृतवान् / किं कर्मतापन्नम् ? / 'विश्वं' जगत् / किंविशिष्टं विश्वम् ? / 'इततमः' / कथम् ? / 'अलं' अत्यर्थम् / किंविशिष्टो यः ? / ('सदानः') अभयदानादिना वार्षिकदानादिना वा सहितः / केषाम् ? / 'दीनानाम्' दुःखितानाम् / पुनः किंविशिष्टो यः ? / न विद्यते दारैः-स्त्रीभिः ईरिततमः-अतिशयेन प्रेरणं यस्य सः 'अदारेरिततमः' | एतादृशो जिनसमूहो जयति / इति पदार्थः / / - अथ समासः-नखानां अंशवः नखांशवः, नखांशूनां श्रेण्यः नखांशुश्रेण्यः, ताभिः नखांशुश्रेणीभिः / नमन्तश्च ते नाकिनश्च नमन्नाकिनः, नमन्नाकिनां मुकुटाः नमन्नाकिमुकुटाः, कपिशिताः नमन्नाकिमुकुटा येन स कपिशितनमन्नाकिमुकुटः / नुदः-प्रेरणं अस्यास्तीति नोदी। नानाविधा आमया 1. 'अरिः-शत्रु' इति प्रतिभाति /