________________ 338 शोभनस्तुति-वृत्तिमाला जात्यादिरूपाः त एवारिः तस्य | पुनः कथं० ? 'सदानः' दानसहितः / केषाम् ? 'दीनानां' कृपणानाम् / पुनः कथं० ? 'अदारेरिततमः' दारैः-स्त्रीभिः ईरितो-ध्यानाच्चालितः, न दारेरितः अदारेरितः, अतिशयेन अदारेरितः अदारेरिततमः / स इति तच्छब्दसम्बन्धाद् यच्छब्दयोजनामाह-यो विश्वं-जगत् इततमः-गतमोहं प्रचक्रे-कृतवान् / अत्रापि ‘प्रचक्रे' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? 'विश्वम्' / कथंभूतम् ? 'इततमः' / / अथ समासः-नखानां अंशवः नखांशवः 'तत्पुरुपः' / नखांशूनां श्रेण्यः नखां० 'तत्पुरुषः' / ताभिः नखां० / नमन्तश्च ते नाकिनश्च नम० 'कर्मधारयः' / नमन्नाकिनां मुकुटाः नम० 'तत्पुरुषः' / कपिशिता नमन्नाकिमुकुटा येन स कपिशित० 'बहुव्रीहिः' / आमयाश्च मलाश्च मदाश्च आमयमलमदाः 'इतरेतरद्वन्द्वः' / नाना च ते आमयमलमदाश्च नानामय० 'कर्मधारयः' / अरिरिवारिः / नानामयमलमदा एवारि नामय० 'कर्मधारयः' / तस्य नानामय० / इतं तमो यस्मात् तद् इततमः ‘बहुव्रीहिः' / जिनानां जिनेषु वा अधीशा जिनाधीशाः 'तत्पुरुषः' / जिनाधीशानां निवहो जिना० 'तत्पुरुषः' / सह दानेन वर्तते यः स सदानः 'तत्पुरुषः' / दारैरीरितो दारेरितः 'तत्पुरुषः' / न दारेरितः अदारेरितः 'तत्पुरुषः' / अतिशयेनादारेरितः अदारेरिततमः / इति काव्यार्थः / / 82 / / सि० वृ०-नखांश्चिति / सोऽयं-एष जिनाधीशनिवहः-तीर्थंकरसमूहः सदा-सर्वदा अलं-अत्यर्थं जयति-सर्वतः अतिशायीभवतीत्यर्थः / जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियासाधनिका पूर्ववत् / अत्र 'जयति' इति क्रियापदम् / कः कर्ता ? | 'जिनाधीशनिवहः' जिनानां जिनेषु वा अधीशाः-स्वामिनः तेषां निवहो-निकुरम्बो जिनाधीशनिवहः / “समूहो निवहव्यूहसन्दोहविसरव्रजाः” इत्यमरः (श्लो० 1065) / कथंभूतो जिनाधीशनिवहः ? / 'कपिशितनमन्नाकिमुकुटः' कपिशिताःपिशङ्गीकृता नमन्तो ये नाकिनः-देवाः तेषां मुकुटाः-किरीटानि येन स तथा / “पिशङ्गः कपिशो हरिः” इति हैमः (का० 6, श्लो० 32) / “मौलिः कोटीरमुष्णीषं, किरीटं मुकुटोऽस्त्रियाम्” इति वैजयन्ती / “मौलिः किरीटं कोटीरमुष्णीषं” इति (अभिधान)चिन्तामणौ (का० 3, श्लो० 315) / काभिः कृत्वा ? / 'नखांशुश्रेणीभिः' नखाः-करशूकाः तेषां अंशवो-मयूखास्तेषां श्रेणयः-पङ्क्तयः ताभिः / पुनः कथंभूतः ? / 'नोदी' नुदतीत्येवंशीलो नोदी, दूरीकरणशील इत्यर्थः / 'नुद स्फेटने' 'सुप्यजातौ०' (पा० अ० 3, पा० 2, सू० 78) इति णिनिः / कस्य ? | 'नानामयमलमदारेः' नाना-विविधप्रकारा ये आमया-रोगाः मलाः-पापानि मदाः-जात्याद्यहङ्कृतयस्त एव अरिः तस्य, आमयाश्च मलाश्च मदाश्च आमयमलमदाः ‘इतरेतरद्वन्द्वः' / नाना च ते आमयमलमदाश्च नानामयमलमदाः 'कर्मधारयः' / अरिरिवारिः, नानामय (मलमदा एव अरिः नाना०) इति कर्मधारयः' /