________________ श्रीनमिजिनस्तुतयः 337 खण्डितदर्प ! / 'नमे' ! नमिजिन ! / 'अघानि' पापानि / ‘लपितः' ! लपनशील ! / 'नमगव्यश्रेणीभवभयभिदां' नमन्त्याः भव्यश्रेण्याः भवभयं भिन्दन्ति यानि तेषाम् / ‘हृद्यवचसां’ हृदयङ्गमवचनानाम् / 'अमायासंचार !' न विद्यते मायासंचारः-शाठ्यस्य प्रचारो यस्मिन् स सम्बोध्यते / ‘उदितमदनमेघानिल !' मदनो मेघ इव मदनमेघः, उदितः-उगतो यो मदनमेघस्तस्य विघट्टनहेतुत्वात् अनिल-नभस्वन् ! / 'पितः' ! जनकभूत ! | हे नमे ! हृद्यवचसां लपितः ! आयासं वितन्वन्ति अघानि मम प्रविकिरेति योगः / / 81 / / (6) अवचूरिः ___ हे नमे !-नमिजिन ! ममायासं वितन्वन्ति अघानि-पापानि प्रविकिर-निरस्य / स्फुरन्ती या विद्युत् तद्वत् कान्तिर्यस्य तस्य संबोधनम् / हे चारो !-दर्शनीय ! / हे दितमद !-छिन्नमद ! / हे लपितः !- वादक ! / केपाम् ? / हृद्यवचसाम् / कथंभूतानाम् ? | नमद्रव्यश्रेणीभवभयभिदाम् | मायाया-दम्भस्य संचारो यस्य स नैवंविधस्तस्य संबोधनम् / उदितः-उदयं प्राप्तो मदनः-कामः स एव मेघो-जीमूतस्तस्य संहारकत्वादनिलो-वात इव तस्य संवोधनम् / हे पितः !-जनक इव हितकारक / / 81 / / जिनेश्वराणां जयः__ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः सदा नोदी नानामयमलमदारेरिततमः / प्रचक्रे विश्वं यः स जयति जिनाधीशनिवहः ... सदानो दीनानामयमलमदारेरिततमः // 2 // 82 // - शिख० ज० वि०-नखांश्चिति / सोऽयं-एष जिनाधीशनिवहः-तीर्थकरनिकरः सदा-सर्वदा अलं-अत्यर्थं जयति-सर्वतः अतिशायीभवति इति क्रियाकारकसम्बन्धः / अत्र 'जयति' इति क्रियापदम् / कः कर्ता ? "जिनाधीशनिवहः' / कथम् ? 'सदा' / पुनः कथम् ? 'अलम्' / जिनाधीशनिवहः कथंभूतः ? 'कपिशितनमन्नाकिमुकुटः' कपिशिताः-पिङ्गिताः नमन्नाकिमुकुटाः-प्रणमत्सुरशिरोमणयो येन स तथा। काभिः कृत्वा ? 'नखांशुश्रेणीभिः' नखमयूखमालाभिः / पुनः कथं० ? 'नोदी' प्रेरणशीलः, दूरीकरणशील इत्यर्थः / कस्य ? 'नानामयमलमदारेः' नाना-अनेकरूपाः ये आमयाः-रोगाः, मलाः-कर्ममलाः, मदाः