________________ शोभनस्तुति-वृत्तिमाला लपति-भाषते इति लपितः / नमन्तश्च ते भव्याश्च नमद्रव्याः, नमव्यानां श्रेणी नमद्भव्यश्रेणी, भवस्य भयं भवभयं, नमद्भव्यश्रेण्या भवभयं नमद्रव्यश्रेणीभवभयं, नमगव्यश्रेणीभवभयं भिन्दन्ति तानि नमद्भव्यश्रेणीभवभयभीन्दि, तेषां नमद्रव्यश्रेणीभवभयभिदाम् / हृद्यानि च तानि वचांसि च हृद्यवचांसि, तेषां हृद्यवचसाम् / मायायाः सञ्चारो मायासञ्चारः, नास्ति मायासञ्चारो यस्य सः अमायासञ्चारः, तस्य सं० हे अमायासञ्चार ! / उदितश्चासौ मदनश्च उदितमदनः, उदितमदन एव मेघः उदितमदनमेघः, (उदितमदनमेघे) अनिल इवानिलः, उदितमदनमेघानिलः, तस्य सं० उदितमदनमेघानिल ! / पातीति पिता तस्य सं० हे पितः ! / क्वचिद्वृत्त्यन्तरे लपित इति विशेषणं संबोधनमप्यस्ति तत्र लपते इति लपिता तस्य सं० हे लपितः ! इत्यपि समासः / शिखरिणीच्छन्दसा स्तुतिरियम् / इति प्रथमवृत्तार्थः / / 81 / / (4) दे० व्या०-स्फुरद्विद्युदिति / हे नमे !-नमिजिन ! त्वं मम अघानि-पापानि सततं प्रविकिर-प्रकर्षण विक्षेपय इत्यन्वयः / ‘कृ विक्षेपे' धातुः / 'प्रविकिर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कानि कर्मतापन्नानि ? अघानि / कथम् ? / सततं-निरन्तरं यथा स्यात् तथेति क्रियाविशेषणम् / किं कुर्वन्ति अघानि ? / वितन्वन्ति-विस्तारयमाणानि / किम् ? / आयास-परिश्रमम् संसारदुःखमिति यावत् / 'स्फुरद्विद्युत्कान्ते' ! इति / स्फुरन्ती-इतस्ततश्चलन्ती या तडिद्-विद्युत् तद्वत् कान्तिः-प्रभा यस्य स तस्यामन्त्रणं, सुवर्णवर्णशरीरत्वात् / 'चारो' ! इति / चारो !-दर्शनीय ! इति प्रायः / 'दितमद' ! इति / दितः-खण्डितो मुन्मोह-सम्भेदो येन स तस्यामन्त्रणम् / ‘लपितः' ! इति / प्रजल्पक ! इत्यर्थः / केषाम् ? / 'हृद्यवचसाम्' हृद्यानि-मनोज्ञानि वचांसि-वचनानि येषां तेषाम् / किंविशिष्टानां हृद्यवचसाम् ? / 'नमद्रव्यश्रेणीभवभयभिदाम्' नमन्ती-प्रणामं कुर्वन्ती या ‘भव्यश्रेणी' भव्यानांभव्यप्राणिनां श्रेणी-सन्ततिः तस्याः ‘भवभयं' भवस्य-संसारस्य भयं-साध्वसं भिन्दन्ति-विदारयन्तीति तथा तेषाम् / ‘अमायासञ्चार !' इति / नास्ति मायया-कपटेन सञ्चारः-प्रचारो यस्य स तस्यामन्त्रणम् / 'उदितमदन-मेघानिल !' इति / उदितः-उदयं प्राप्तः यो मदनः-कन्दर्पः स एव मेघः-पर्जन्यः तस्मिन्, विघटनहेतुत्वात् अनिल इव अनिलो यः स तस्यामन्त्रणम् / 'पितः' ! इति आमन्त्रणे पदम्, जनक इव हितकारित्वात् / एतानि सर्वाण्यपि नमेः सम्बोधनपदानि / / इति प्रथमवृत्तार्थः / / 81 / / ध० टीका-स्फुरदिति / 'स्फुरद्विद्युत्कान्ते !' चञ्चत्तडित्प्रभ ! / 'प्रविकिर' निरस्य / 'वितन्वन्ति' विस्तारयमाणानि / ‘सततं' सर्वदा / 'मम' मे | ‘आयासं' श्रमम् / 'चारो' ! दर्शनीय ! / 'दितमद' !