________________ श्रीनमिजिनस्तुतयः हे लपितः ! / 'लप परिभाषणे' कर्तरिक्तः / केषाम् ? / 'हृद्यवचसां' हृद्यानि-हृदयङ्गमानि च तानि वचांसि च हृद्यवचांसि तेषां हृद्यवचसाम् / कथंभूतानां हृद्यवचसाम् ? / 'नमद्भव्यश्रेणीभवभयभिदां' नमन्तीनमस्कारं कुर्वन्ती या भव्यानां भवन्तीति भवन्त्येभिरिति वा भव्याः ‘भव्यगेय०' (पा० अ० 3, पा० 4, सू० 68) इति निपातः तेषां सम्यग्दृशामित्यर्थः श्रेणी-पंक्तिः तस्याः भवभयं भवस्य-संसारस्य भयंभीतिं भिन्दन्ति-विदारयन्ति तानि तथोक्तानि तेषां नमद्रव्यश्रेणीभवभयभिदाम् / “श्रेणी लेखास्तु राजयः” इत्यमरः (श्लो० 656) / हे अमायासञ्चार !' नास्ति मायायाः-निकृतेः-शाठ्यस्य सञ्चारः-प्रचारो यस्मिन् स तथा तस्य सं० / हे ‘उदितमदनमेघानिल !' उदितः-उदयं प्राप्तः यो मदनः-कामः स एव मेघः-पर्जन्यः तस्य तस्मिन् वा अनिल इव अनिलो-वायुः तस्य सं० / प्रादुर्भूतकन्दर्पमेघविघट्टने पवनकल्प इति निष्कर्षः / हे 'पितः' पाति रक्षतीति पिता तस्य संबोधनम्, निष्कारणहितकारित्वादिति भावः / / 81 / / . (3) ___ सौ० वृ०-यो मुनिवत् सुव्रतो-महात्मा भवति तं प्रति सर्वेऽपि नमन्ति / तथा गर्भस्थे भगवति मातुर्दर्शनेन सर्वेऽपि शत्रवो नमिताः / अनेन सम्बन्धेनायातस्यैकविंशतितमश्रीनमिनाथजिनस्य स्तुतेरर्थो लिख्यते-स्फुरद्विद्युदिति / हे 'नमे !' हे नमिजिनपते.! | पुनः स्फुरन्ती-दीप्यन्ती या विद्युत्-तडित् तद्वत् कान्तिः-प्रभा यस्य स स्फुरद्विद्युत्कान्तिः तस्य सं० हे 'स्फुरद्विद्युत्कान्ते' ! / हे 'चारो' ! हे मनोज्ञ ! / हे 'दितमद' ! हे खण्डितदर्प ! / हे 'अमायप्रचार' ! नास्ति (मायायाः प्रचारो यस्मिन् तस्यामन्त्रणं) अशाठ्यप्रचार ! / हे 'उदितमदनमेघानिल' ! हे प्रकटितकामघनप्रचण्डपवन !, तन्निर्घाटकत्वात् / हे 'पितः' ! हे निष्कारणेन जगज्जन्तुरक्षकत्वात् जनक ! / त्वं मे-मम अघानि-पापानि सततं-सदा प्रविकिर इत्यन्वयः / 'प्रविकिर इति क्रियापदम् / कः कर्ता ? / त्वम्' / 'प्रविकिर'-निरस्य-दूरं क्षिप | कानि कर्मतापन्नानि ? / 'अघानि' पापानि / कस्य ? / 'मे' मम / कथम् ? / 'सततं’ निरन्तरम् / किंविशिष्टानि अघानि ? / वितन्वन्ति' विस्तारं कुर्वन्ति / किं कर्मतापन्नम् ? / 'आयासं' श्रमं भवभ्रमणलक्षणम् / कस्य ? / 'मम' / किंविशिष्टस्त्वम् ? / 'लपितः' हृद्यकथकः / केषाम् ? | हृद्यानि-मनोहराणि यानि वचांसि हृद्यवचांसि तेषां हद्यवचसाम् / किंविशिष्टानां हृद्यवचसाम् ? | नमन्ती-प्रणमन्ती या भव्यानां-मुक्तिगमनयोग्यानां श्रेणी-राजिः तस्याः भवभयं-संसारभयं तस्य भेदनशीलानां 'नमद्रव्यश्रेणीभवभयभिदाम्' / तादृशस्त्वं मम दुरितानि प्रविकिर-दूरं प्रक्षिप / इति पदार्थः / / ____ अथ समासः-स्फुरन्ती चासौ विद्युच्च स्फुरद्विद्युत्, स्फुरद्विद्युदिव कान्तिर्यस्य स स्फुरद्विद्युत्कान्तिः, तस्य सं० हे स्फुरद्विद्युत्कान्ते ! / दितो मदो येन स दितमदः, तस्य सं० हे दितमद ! / 1. अत्र 'अमायासञ्चार !' इत्युचितम्मूलश्लोके प्ररूपितस्य तथाविधत्वात् /