________________ 334 शोभनस्तुति-वृत्तिमाला 'नमद्भव्यश्रेणीभवभयभिदां' प्रणमद्भव्यसन्ततः संसारभीतिभेदकानाम् / हे ‘अमायासञ्चार' ! न विद्यते मायायाः-शाठ्यस्य सञ्चारः-प्रचारो यस्मिन् तत्सम्बो० हे अमा० ! / हे 'उदितमदनमेघानिल' ! उदितःउद्गतो यो मदनमेघः-कामरूपो जलदः तत्र अनिल !-समीर !, तद्विघटनहेतुत्वात् / हे 'पितः' ! जनक !, निष्कारणहितकारित्वात् / / अथ समासः-स्फुरन्ती चासौ विद्युच्च स्फुर० 'कर्मधारयः' / स्फुरद्विद्युत्वत् कान्तिर्यस्य स स्फुर० 'बहुव्रीहिः' / तत्सम्बो० हे स्फुर० / दितो मदो येन स दितमदः 'तत्पुरुषः' / तत्सम्बो० हे दित० / भव्यानां श्रेणी भव्य० 'तत्पुरुषः' / नमन्ती चासौ भव्यश्रेणी च नमद्भव्य० 'कर्मधारयः' / भवस्य भयं भवभयं 'तत्पुरुषः' / भवभयं भिन्दन्तीति भव० 'तत्पुरुषः' / नमद्भव्यश्रेण्या भवभयभिदो नमद्भव्य० 'तत्पुरुषः' / तेषां नमद्रव्य० / हृद्यानि च तानि वचांसि हृद्य० 'कर्मधारयः' / तेषां हृद्य० / मायायाः सञ्चारो माया० 'तत्पुरुषः' / न विद्यते मायासञ्चारो यस्य सः अमाया० ‘बहुव्रीहिः' / तत्सम्बो० हे माया० / मेघ इव मेघः / मदनश्चासौ मेघश्च मदन० 'कर्मधारयः' / उदितश्चासौ मदनमेघश्च उदित० 'कर्मधारयः' / अनिल इवानिलः / उदितमदनमेघेऽनिलः उदित० 'तत्पुरुषः' / तत्सम्बो० हे उदित० / इति काव्यार्थः / / 81 / / (2) सि० वृ०-स्फुरद्विद्युदिति / परीषहादिनाऽनमनान्नमिः, गर्भस्थेऽस्मिन् वैरिनृपैः रुद्धे पुरे भगवत्पुण्यशक्तिप्रेरितां प्राकारोपरिस्थितां भगवन्मातरमालोक्य ते वैरिनृपाः प्रणता इति वा नमिः, तस्य संबोधनं हे नमे !-नमिनामजिनपते ! त्वं मम सततं-सर्वदा अघानि-पापानि प्रविकिर-विक्षिपेत्यर्थः / प्रपूर्वक ‘कृ विक्षेपे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) मध्यमपुरुषैकवचनं हिः / ‘अप्०' (सा० सू० 691), 'ऋत इर्' (सा० सू० 820), अतः' (सा० सू०७०५) इति हेर्लुक्, 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘प्रविकिर' इति सिद्धम् / अत्र ‘प्रविकिर' इति क्रियापदम् / कः कर्ता ? | त्वम् / कानि कर्मतापन्नानि ? / अघानि / “अघं तु व्यसने प्रोक्तमघं दुरितदुःखयोः” इति विश्वः / कस्य ? / मम / कथम् ? | सततम् / अघानि किं कुर्वन्ति ? / वितन्वन्ति / 'तनु विस्तारे' वितन्वन्ति तानि विस्तारयमाणानि / किम् ? / आयासं-श्रमं, भवभ्रमणक्लेशमित्यर्थः / अवशिष्टानि सर्वाणि नमेः संबोधनानि, तेषां व्याख्या यथा-हे 'स्फुरद्विद्युत्कान्ते' ! स्फुरन्ती-इतस्ततः चलन्ती या विद्युत्-तडित् तद्वत् कान्तिः-शरीरद्युतिर्यस्य स तस्य संबोधनं हे स्फुर० / हे 'चार' ! चरतीति चरः चर एव चारः / प्रज्ञादित्वादण् / तस्य संबोधनं हे चार ! दर्शनीय इत्यर्थः / हे 'दितमद' ! दितः-खण्डितो मदो-दो मुन्मोहसंभेदो वा येन स तथा तस्य सं० / हे 'लपितः' ! लपति-कथयतीत्येवंशीलः लपिता तस्य सं० 1. इदं चिन्त्यमिव प्रतिभाति / 2. 'प्रज्ञा श्रद्धावृत्तिभ्योऽण्' इति सारस्वते (सू० 619) /