________________ श्रीनमिजिनस्तुतयः 333 -44 21. श्रीनमिजिनस्तुतयः अथ श्रीनमिनाथस्य संकीर्तनम्: स्फुरद्विद्युत्कान्ते ! प्रविकिर वितन्वन्ति सततं ___ ममायासं चारो ! दितमद ! 'नमे'ऽघानि लपितः ! / नमद्रव्यश्रेणीभवभयभिदां हृद्यवचसाममायासञ्चारोदितमदनमेघानिल ! पितः ! // 1 // 81 // - शिखरिणी (6,11) ज० वि०-स्फुरद्विद्युदिति / हे नमिनाथ ! जिनपते ! त्वं मम-मे सततं-सर्वदा अघानि-पापानि प्रविकिर-निरस इति क्रियाकारकसंयोजनम् / अत्र ‘प्रविकिर' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कानि कर्मतापन्नानि ? 'अघानि' पापानि / कस्य ? 'मम' / कथम् ? 'सततम्' / अघानि किं कुर्वन्ति ? 'वितन्वन्ति' विस्तारयमाणानि / किं कर्मतापन्नम् ? 'आयासं' श्रमम्, भवभ्रमणक्लेशमित्यर्थः / अवशिष्टानि सर्वाण्यपि श्रीनमेः सम्बोधनानि, तद्व्याख्या चैवम्-हे 'स्फुरद्विद्युत्कान्ते !' चञ्चलतडित्प्रभ ! / हे 'चारो' ! दर्शनीय ! / हे 'हितमद' !खण्डितदर्प!। हे 'लपितः'! लपति-कथयतीत्येवंशीलो नपिता तत्सम्बो० हे लपितः ! / केषाम् ? 'हृद्यवचसा' हृदयङ्गमवचनानाम् / कथंभूतानां हृद्यवचसाम् ? 1. प्रथमायां वा।