________________ 332 शोभनस्तुति-वृत्तिमाला 'अतुलोपकृतं' स्वकान्तिसंविभागप्रदानादिना अतुलं-असदृशं उपकृतं-उपकारो यस्य तत्, अथवा अतुलं यथा भवत्येवं उपकृतं-उपकारे स्थितम् / 'मृगमदपत्रभङ्गतिलकैः' मृगमदेन(दस्य)-कस्तूरिकाया ये पत्रभङ्गतिलकाः-पत्रच्छेदोपलक्षितविशेषकाः तैः / 'वदनं' आस्यम् / 'दधती' बिभ्राणा / 'कमलकरा' कमलं करे यस्याः सा, अथवा कमलवत् करावस्याः इति / 'जितामरसभा' जिता-निष्प्रभीकृता रूपनेपथ्यप्रागल्भ्यादिभिः अमराणां सभा यया सा / 'अस्यतु' क्षिपतु, अथवा अस्यतु-विनाशयतु / 'लोपकृतं' लोपो-विनाशस्तं करोतीति लोपकृत् प्रतिपक्षादिस्तम् / मृगमदपत्रभङ्गतिलकैः कृत्वा उचिताईं वदनं दधती गौरी तव लोपकृतं अस्यतु इति सम्बन्धः / / 4 / 20 / 80 // अवचूरिः गौरी देवी तव लोपकृतं-विनाशकारकमस्यतु-क्षिपतु / किंभूता ? | अधिगता-प्राप्ता गोधिकादेववाहनविशेषो यया सा / कनकवद् रुग्-दीप्तिर्यस्य वदनं-मुखं दधती / किंभूतम् ? / मृगमदस्यकस्तूरिकाया ये पत्रभङ्गाः-पत्रच्छेदास्तैरुपलक्षिता ये तिलकास्तैरुचिता-योग्या अङ्का-लाञ्छनानि यस्य तदुचिताङ्कम् / अलकैः-चिकुरै राजते इत्येवंशीलमलकराजि' / तामरसभासि / अतुलमुपकृतं स्वकान्तिविभागादिना उपकारो यस्य तत् / कमलं करे यस्याः कमलवद् वा क्ररो यस्याः सा / जितानिष्प्रभीकृता रूपनेपथ्यप्रागल्भ्यादिभिरमराणां सभा यया सा // 4 / 20 / 80 //