________________ श्रीमुनिसुव्रतजिनस्तुतयः भा यस्यां सा अलकराजितामरसभासी / अतुलं उपकृतं यस्मिन् तद् अतुलोपकृतं यथा स्यात् तथा / अथवा वदनस्यापि विशेषणमिदम् / मृगमदश्च पत्रभङ्गाश्च तिलकानि च मृगमदपत्रभङ्गतिलकानि, तैः मृगमदपत्रभङ्गतिलकैः / कमलं करे यस्याः सा कमलकरा | अमराणां सभा अमरसभा, जिता अमरसभा यया सा जितामरसभा / लोपं करोतीति लोपकृत्, तं लोपकृतम् / / इति तुर्यवृत्तार्थः / / 80 / / श्रीकूर्माङ्कजिनेशस्य, स्तुतेरथों लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना / / // इति श्रीविंशतितममुनिसुव्रतजिनस्तुतिः // 4 / 20 / 80 // दे० व्या०-अधिंगतेति / गौरी देवी तव लोपकृतं-विनाशकारकं अस्यतु-क्षिपतु इत्यन्वयः / अस क्षेपणे' धातुः / ‘अस्यतु' इति क्रियापदम् / का की ? / गौरी देवी / कं कर्मतापन्नम् ? | लोपकृतम् / कस्य ? / तव / किंविशिष्टा गौरी ? / 'अधिगतगोधिका' अधिगता-आरूढां गोधिका यया सा तथा। गोधिका-देववाहनविशेषः / पुनः किंविशिष्टा ? / 'कनकरुक्' कनकं-सुवर्णं तद्वद् रुक्-कान्तिर्यस्याः सा तथा, सुवर्णवर्णेति भावः / पुनः किंविशिष्टा ? | ‘कमलकरा' कमलं-नलिनं करे-हस्ते यस्याः सा तथा, क्रीडायै तद्ग्रहणात् / यद्वा कमलवत् करौ-हस्तौ यस्याः सा तथा / पुनः किंविशिष्टा ? | 'जितामरसभा' अमराणां सभा अमरसभा इति ‘पष्ठीतत्पुरुषः', ततः जिता-पराजिता अमरसभादेवपर्षद् यया सा तथा शरीरसौन्दर्यात् ताशनेपथ्यादिपरिधानाद् वा / किं कुर्वती देवी ? / दधतीधारयन्ती / किम् ? / वदनं-वक्त्रम् / किंविशिष्टं वदनम् ? / 'उचिताङ्कम्' उचितं-योग्यस्थाने कृतं अङ्घलाञ्छनं यस्य तत् / “कलङ्काको लाञ्छनं च” इत्यमरः (श्लो० 178) / कैः ? / 'मृगमदपत्रभङ्गतिलकैः' मृगमदो-मृगनाभिः, “मृगनाभिर्मुगमदः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 308), तस्य पत्रभङ्गाः-पत्रच्छेदाः तैरुपलक्षिता ये तिलकाः-पुण्ड्रविशेषाः तैः / पुनः किंविशिष्टम् ? / 'अलकराजि' अलकाः-कुरलाः तैः राजते इत्येवंशीलं अलकराजि / पुनः किंविशिष्टम् ? | 'तामरसभासि' तामरसंकमलं तद्वद् भासते इत्येवंशीलं तामरसभासि / पुनः किंविशिष्टम् ? / 'अतुलोपकृतम्' अतुलं-असदृशं उपकृतंउपकारो यस्य तत् / / इति तुरीयवृत्तार्थः // 4 / 20 / 80 // ध० टीका-अधिगतेति / 'अधिगतगोधिका' अधिगता-प्राप्ता गोधा-देववाहनविशेषो यया सा / अत्र स्वार्थ कन् / 'कनकरुक्' सुवर्णच्छविः / 'तव' भवतः / 'गौरी' गौर्याख्या देवता / 'उचिताङ्गम्' उचिता-योग्या अङ्का-लाञ्छनानि यस्य तत् / 'अलकराजि' कुरुलोल्लासि / 'तामरसभासि' पद्मद्युति /