________________ 330 शोभनस्तुति-वृत्तिमाला कस्तूरिकया ये पत्रभङ्गतिलकाः-पत्रच्छेदोपलक्षितविशेषकाः तैः कृत्वा / पुनः कथंभूतम् ? / 'अलकराजि' अलकैः-कुन्तलैः राजते इत्येवंशीलं अलकराजि / पुनः कथंभूतम् ? / 'तामरसभासि' तामरसं-कमलं तद्वद् भासते इति तामरसभासि, पद्मवद् भासनशीलमित्यर्थः / पुनः कथंभूतम् ? / 'अतुलोपकृतं' अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् / कृपाकटाक्षमात्रेणैव सुखजनकत्वादिति भावः / कथंभूता गौरी ? / 'कमलकरा' कमलं करे यस्याः सा, क्रीडायै तद्ग्रहणादिति भावः / यदि वा कमलवत् करौ यस्याः सा तथेत्यर्थः / पुनः कथंभूता ? / 'जितामरसभा' जिता-निष्प्रभीकृता स्वरूपनेपथ्यादिभिः अमराणां सभा यया सा तथा / / नर्कुटकं छन्दः / / “यदि भवतो नजौ भजजला गुरुर्नर्कुटकम्” इति च तल्लक्षणम् / / 80 / / // इति महोपाध्यायश्रीभानुचन्द्र० श्रीमुनिसुव्रतजिनस्तुतिवृत्तिः // 4 / 20 / 80 // (3) सौ० वृ०-अधिगतेति / गौरी-गौरीनाम्नी देवी तव 'लोपकृतं' लोपो-विघ्नाक्षेमादि कृतं-कर्तारं अस्यतु इत्यन्वयः / अस्यतु' इति क्रियापदम् / का की ? / 'गौरी' / अस्यतु' क्षिपतु-निराकरोतु / किं कर्मतापन्नम् ? | ‘लोपकृतं' विघ्नकर्तारम् / कस्य ? / 'तव' ते / किंविशिष्टा गौरी ? / अधिगताअधिष्ठिता गोधिका-देववाहनविशेषो यया सा 'अधिगतगोधिका', चन्दनगोधावाहनेत्यर्थः / पुनः किंविशिष्टा गौरी ? / 'कनकरुक्' सुवर्णच्छविः / पुनः किं कुर्वती गौरी ? / 'दधती' धारयन्ती / किं कर्मतापन्नम् ? / 'वदनं' मुखम् / किंविशिष्टं वदनम् ? / 'उचितं' योग्यम् अङ्क-चिरेखादिकं यस्मिन् तद् ‘उचिताङ्कम्' / कैः कृत्वा ? | मृगमदः-कस्तूरिका पत्रभङ्गाः-पत्रवल्ल्यः प्रियलि इति भाषा तिलकंललामं मृगमदपत्रभङ्गतिलकानि तैः ‘मृगमदपत्रभङ्गतिलकैः' / पुनः किंविशिष्टा गौरी ? / अलकाःकेशास्तेषां राजिः-श्रेणिः तस्यां तामरसानि-कमलानि तेषां भा-कान्तिर्यस्याः सा अलकराजितामरसभासी / पुनः किंविशिष्टा गौरी ? / 'कमलकरा' कमलहस्ता / पुनः किंविशिष्टा गौरी ? / लावण्यादिगुणैः 'जितामरसभा' निर्जितसुरपर्षत् / कथम् ? ।अतुलः(लं)-अमेयः(य) उपकृतं-उपकृतिगुणो यथा भवतीति तथा 'अतुलोपकृतम् / अमेयोपकारगुणाधिक्येन निर्जितसुरपर्षत् तादृशी गौरी देवी तव लोपकृतं क्षिपतु / इति पदार्थः / / अथ समासः-अधिगता गोधिका-देववाहनविशेषो यया सा अधिगतगोधिका | कनकवद् रुक् यस्याः सा कनकरुक् / उचितानि अङ्कानि-चिहानि रेखादीनि यस्मिन् तद् उचिताङ्कम्, तद् उचिताङ्कम् / अलकानां राजिः अलकराजिः, अलकराज्यां तामरसानि अलकराजितामरसानि, अलकराजितामरसानां 1. “चिहं रेखादिकं' इति प्रतिभाति /