________________ श्रीमुनिसुव्रतजिनस्तुतयः 329 विशेषकास्तैः कृत्वा / पुनः कथं० ? 'अलकराजि' कुरलोद्भासि / “कुरलो भ्रमरालकः” इत्यभिधानचिन्तामणौ (का० 3, श्लो० 233) / पुनः कथं० ? 'तामरसभासि' पद्मवद् भासनशीलम् / पुनः कथं० ? 'अतुलोपकृतं' स्वकान्तिसम्भागप्रदानादिना अतुलं-असदृशं उपकृतं-उपकारो यस्य तत् तथा / अथवा अतुलं यथा स्यात् तथा उपकृतं-उपकारे स्थितम् / पुनः कथंभूता गौरी ? 'कमलकरा' कमलं करे यस्याः सा तथा, अथवा कमलवत् करौ यस्याः सा तथा / पुनः कथं० ? 'जितामरसभा' जितानिष्प्रभीकृता रूपनेपथ्यप्रागल्भ्यादिभिः अमराणां सभा यया सा तथा / / अथ समासः-अधिगता गोधा यया सा अधिगतगोधिका ‘बहुव्रीहिः' / कनकवद् रुक् यस्याः सा कनक० ‘बहुव्रीहिः' / उचिता अङ्का यस्मिन् तद् उचिताङ्कम् ‘बहुव्रीहिः' / (तद् उचि० / ) अलकै राजि अल० 'तत्पुरुषः' / तदल० / तामरसवद् भासि तामर० 'तत्पुरुषः' / तत् ताम० / अतुलं उपकृतं यस्य तदतुलो० 'बहुव्रीहिः' / अथवा अतुलं उपकृतं येन तदतुलो० 'बहुव्रीहिः' / तदतुलो० / मृगस्य मदो मृगमदः 'तत्पुरुषः' / पत्रभङ्गैरुपलक्षितास्तिलकाः पत्र० 'तत्पुरुषः' / मृगमदेन पत्रभङ्गतिलका मृगमद० 'तत्पुरुषः' / तैमूंग० / कमलं करे यस्याः सा कमल० 'बहुव्रीहिः' / अथवा कमलवत् करौ यस्याः सा कमल० 'बहुव्रीहिः' / अमराणां सभा अमर० 'तत्पुरुषः / जिता अमरसभा यया सा जिता० ‘वहुव्रीहिः' / लोपं करोतीति लोपकृत् 'तत्पुरुषः' / तं लोपकृतम् / इति काव्यार्थः / / 80 / / ... // इति श्रीशोभनस्तुतिवृत्तौ श्रीमुनिसुव्रतजिनपतेः स्तुतेर्व्याख्या // 4 / 20 / 80 // सि० वृ०-अधिगतेति / हे भव्यात्मन् ! गौरी-गौरीनाम्नी देवी तव-भवतो लोपकृतं-विनाशकृतं अर्थाद् विपक्षादिकं अस्यतु-क्षिपत्वित्यर्थः / ‘असु क्षेपणे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / 'दिवादेर्यः' (सा० सू० 963), 'स्वरहीनं' (सा० सू० 36) / तथा च ‘अस्यतु' इति सिद्धम् / अत्र ‘अस्यतु' इति क्रियापदम् / का की ? 'गौरी' गौरवर्णत्वाद् गौरी / कं कर्मतापन्नम् ? / ‘लोपकृतम्' लोपं-विनाशं करोतीति लोपकृत् तम् / कस्य ? / तव / कथंभूता गौरी ? / 'अधिगतगोधिका' अधिगता-प्राप्ता गोधा-देववाहनविशेषो यया सा तथा / गोधा एव गोधिका, स्वार्थे कः / अन्ये तु गोधिकां अधिगता अधिगतगोधिका / क्वचिदमाद्यन्तस्य परमत्वमिति गोधिकाशब्दस्य परनिपातः इति व्याख्यान्ति तच्चिन्त्यमिव प्रतिभाति / पुनः कथंभूता ? / 'कनकरुक्' कनकं-काञ्चनं तदिव रुक्-छविर्यस्याः सा कनकरुक् / गौरी किं कुर्वती ? / दधती-बिभ्राणा / किम् ? / वदनं-मुखम् / कथंभूतं वदनम् ? / 'उचिताङ्क' उचिता अङ्का-लाञ्छनानि यस्य तत् तथा / “अङ्कः समीपे उत्सङ्गे, चिह्ने स्थानापराधयोः” इत्यमरः (?) / कैः कृत्वा ? / 'मृगमदपत्रभङ्गतिलकैः' मृगमदेन