SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ शोभनस्तुति-वृत्तिमाला भगवदागमश्रवणमहिम्ना भविष्यति / भाविनि च भूतोपचाराद् भूतमेवेति युक्तमेवेदमागमस्य सम्वोधनम् / उद्धताजिनवरागमनोरूपं भवस्य विशेषणद्वयं तु लोकयुक्त्यनुसारेण घटत एव / / ___ अथ समासः-मृतिश्च जातिश्च मृतिजाती इतरेतरद्वन्द्वः / न हितं अहितं 'तत्पुरुषः' / मृतिजाती एवाहितं मृति० 'कर्मधारयः' / यद्वा मृतिश्च जातिश्च मृतिजाति समाहारद्वन्द्वः' ।मृतिजाति एवाहितं मृतिक 'कर्मधारयः' / तस्मै मृतिः / यद्वा मृतिजात्योर्मृतिजातिनो वाऽहितं मृतिजा० 'तत्पुरुषः' / तस्मै मृतिजा० / जिनानां जिनेषु वा वरा जिनवराः 'तत्पुरुषः' / जिनवराणामागमः जिनवरा० 'तत्पुरुषः' / तत्सम्बो० हे जिनवरा० / प्रकर्षण लघुता प्रलघुता 'तत्पुरुषः' / तां प्रलघुताम् / उद्धतश्चासावाजिश्च उद्धताजि० 'कर्मधारयः' / नवश्चासौ रागश्च नवरागः 'कर्मधारयः' / उद्धताजिश्च नवरागश्च मनोभवश्च माया च उद्धताजिनवरागमनोभवमायाः ‘इतरेतरद्वन्द्वः' / निर्मथिता उद्धताजि० येन स निर्मथितोद्धताजिनवरागमनोभवमायः ‘बहुव्रीहिः' / अथवा उद्धताजौ नवरागो यस्य तत् उद्धता० ‘बहुव्रीहिः' / उद्धताजिनवरागं च तन्मनश्च उद्धताजि० 'कर्मधारयः' / उद्धताजिनवरागमनसि भवा उद्धताजि० 'तत्पुरुषः' / उद्धताजिनवरागमनोभवा चासौ माया च उद्धताजि० 'कर्मधारयः' / निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितोद्धता० ‘बहुव्रीहिः' / यद्वा उद्धतं आजिनं यस्य उद्धताजिनः 'बहुव्रीहिः' / वरश्चासावगश्च वरागः ‘कर्मधारयः' / वरागे मनो यस्य स वरागमनाः ‘बहुव्रीहिः' / उद्धताजिनश्चासौ वरागमनाश्च उद्धता० 'कर्मधारयः' / उद्धताजिनवरागमनाश्चासौ भवश्च उद्धता० ‘कर्मधारयः' / उद्धताजिनवरागमनोभवस्य माया उद्धता० 'तत्पुरुषः' / निर्मथिता उद्धताजिनवरागमनोभवमाया येन स निर्मथितो० 'बहुव्रीहिः' / तत्सम्बो० हे निर्मथितो० / / इति काव्यार्थः / / 15 / / ___(2) सि० वृ०-असुमतामिति / जिनेषु वराः जिनवराः, तेषां आगमः-सिद्धान्तः तस्य सम्बोधनं हे जिनवरागम ! - तीर्थङ्करसिद्धान्त ! त्वं नः-अस्माकं तं भवं-संसारं आयतं दीर्घत्वं स च (दीर्घ सन्तं ?) प्रलघुतां-ह्रस्वीयत्वं (हसीयस्त्वं ?) नय-प्रापयेत्यर्थः / ‘णीञ् प्रापणे' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / णीञ् अग्रे हिः / ‘आदेः ष्णः स्नः' (सा० सू० 748) इति णकारस्य नकारः, ‘अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'ए अय्' (सा० सू० 41), 'अतः' (सा० सू० 705) इति हेर्लुक्, ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'नय' इति निष्पन्नम् / अत्र ‘नय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कं कर्मतापन्नम् ? / भवम् / 'भुवश्च वाच्यः' इति णत्वाभावपक्षे अच् / “भवः संसारसत्ताप्ति-श्रेयःशंकरजन्मसु” इति विश्वः / नीधातोद्धिकर्मकत्वाद् द्वितीयं कर्माह-कां कर्मतापन्नाम् ? / 'प्रलघुतां' प्रकर्षण लघुता प्रलघुता तां प्रलघुताम् / केषाम् ? |
SR No.004429
Book TitleShobhan Stuti Vruttimala Part 01
Original Sutra AuthorN/A
AuthorRihtvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy