________________ श्रीअभिनन्दनजिनस्तुतयः पृथिव्यां विष्टपजनहितत्वम् / अमतावनभिप्रेतौ मोहसङ्ग्रामौ येषां ते / यमहारिणो मृत्युहरणशीलाः / यद्वा यमानि महावतानि तैर्मनोहराः / / 14 / / / आगमस्तुतिःअसुमतां मृतिजात्यहिताय यो जिनवरागम ! नो भवमायतम् / प्रलघुतां नय निर्मथितोद्धता- . ऽऽजिनवरागमनोभवमाय ! तम् // 3 // 15 // - द्रुत० (1) ज० वि०-असुमतामिति / हे जिनवरागम ! - हे तीर्थंकरसिद्धान्त ! त्वं नः-अस्माकं तं भवं-संसार प्रलघुतां-इसीयस्त्वं नय-प्रापय इति क्रियाकारकसम्बन्धः / अत्र 'नय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'भवम्' / नीधातोद्धिकर्मकत्वात् द्वितीयं कर्म आह-कां कर्मतापन्नाम् ? 'प्रलघुताम्' / केषाम् ? 'नः' / यत्तदोरभिसम्बन्धात् तं कम् ? यो भवः असुमतां-प्राणिनां मृतिजात्यहितायमृतिः-मरणं जातिः-जन्म तद्रूपं यद् अहितं-अपथ्यं तस्मै भवतीति क्रियाध्याहारः / चतुर्थी चेयं तादर्थ्य ज्ञेया / अत्र ‘भवति' इति क्रियापदम् / कः कर्ता ? ‘यः' / कस्मै ? 'मृतिजात्यहिताय' / केषाम् ? 'असुमताम्' / नः इति शब्दोऽस्मच्छब्दस्य षष्ठीबहुवचनान्तत्वेन व्याख्यातः स निषेधार्थत्वेनापि व्याख्येयः / तथाहि-यो भवः असुमतां मृतिजात्यहिताय नो भवति-प्राणिसम्बन्धिन्यौ ये मृतिजाती तयोरहिताय न भवति, किन्तु तयोरुपचयहेतुत्वात् द्वितीय एव भवतीति भावः / अवशिष्टं त्वेकं जिनवरागमस्य सम्बोधनम् / तस्य चायमर्थः-हे 'निर्मथितोद्धताजिनवरागमनोभवमाय !' उद्धतः-उद्दामः आजिः-संग्रामः नवो-नूतनो रागो-द्रव्यादावभिलाषः मनोभवः-कन्दर्पः माया-वञ्चनिका एतानि निर्मथितानि अर्थात् निरस्तानि येन / अथवा उद्धताजौ नवरागयुक्तं यन्मनः-चित्तं तत्र भवा-संजाता या माया सा निर्मथिता येन / यद्वा 'उद्धताजिनः' उत्क्षिप्तचर्मा, ‘वरागमनाः' वरागः-प्रधानशैलः अर्थात् कैलासस्तत्र मनो यस्य, एतादृशो यो भवः-शंकरः तस्य माया-संसारलक्षणा सा निर्मथिता येन तत्सम्बो० हे निर्म० / अत्र तृतीयपक्षे भवस्तु सत्यकिनामा पुरुषविशेषो ज्ञेयः / तस्य संसारनिर्मथनं तु 1. ०मायतम्' इत्येकं पदं वा /