________________ शोभनस्तुति-वृत्तिमाला (4) दे० व्या०-जिनवरा इति / हे जिनवराः !- तीर्थंकराः ! यूयं मे-मम तमोहरणाय प्रयतध्वं-प्रकर्षण यलं कुरुध्वम् इत्यन्वयः / 'यती प्रयत्ने' धातुः / ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / कस्मै ? / 'तमोहरणाय' तमः-अज्ञानं पापं वा तस्य हरणं-अपनयनं तस्मै / कस्य ? / मम / किंविशिष्टा जिनवराः ? / 'इतामयाः' इता-गता आमया-रोगा येभ्यस्ते तथा / “आम आमय आकल्पः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 927) / पुनः किंविशिष्टाः ? / 'महारिणः' महान्ति-प्रकृष्टानि अरीणिचक्राणि येषां ते तथा धर्मचक्रवर्तित्वात् / पुनः किंविशिष्टाः ? | ‘अमतमोहरणाः' मोहो-भ्रमः रणःसंग्रामः अनयोः पूर्वं द्वन्द्वः, ततः अमतौ-अनभिप्रेतौ मोहरणौ येषां ते तथेति समासः / अमो-रोगः तमःअज्ञानम् ते हरन्ति-नाशयन्ति इति अमतमोहरणाः इत्यर्थो वा / पुनः किंविशिष्टाः ? / 'यमहारिणः' यमाः महाव्रतानि तैः हारिणः-मनोहराः 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 81) / यमा एव हारः-कण्ठभूषणं येषां ते तथा / यम-मृत्युं हरन्तीत्येवंशीला यमहारिणः इति प्राञ्चः / जिनवराः किं कुर्वन्तः ? | प्रदधतः / काम् ? / 'विश्वजनीनतां' विश्वस्य-जगतः जनीनतांहितकारिताम् / कस्याम् ? / भुवि / / इति द्वितीयवृत्तार्थः / / 14 / / घ० टीका-जिनवरा इति / 'जिनवराः' जिनवरेन्द्राः / ‘प्रयतध्वं' प्रयत्नं कुरुध्वम् / ‘इतामया' गतरोगाः / 'मम तमोहरणाय' मे अज्ञानापनयनार्थम् / ‘महारिणः' महान्ति अरीणि-चक्राणि धर्मचक्रलक्षणानि येषां ते / ‘प्रदधतो' धारयतः, धारयन्तो वा / 'भुवि' पृथिव्याम् / 'विश्वजनीनतां' सकलजनहितत्वम् / 'अमतमोहरणा' न मतौ-नाभिप्रेतौ मोहरणौ-अज्ञानसङ्ग्रामौ येषां ते / 'यमहारिणः' मृत्युहरणशीलाः / अथवा मतमोहो-दर्शनमूढत्वं तस्माद् रणः-कलहो वादलक्षणो न विद्यते येषां ते अमतमोहरणाः / ‘यमहारिणः' यमाः-अहिंसासत्यास्तेयब्रह्मचर्याहारलाघवलक्षणास्ते हारिणो-मनोहराः येषां ते यमहारिणः / हे जिनवराः ! मम तमोहरणाय प्रयतध्वमित्यन्वयः / / 14 / / (6) अवचूरिः हे जिनवराः ! मम तमोहरणायाज्ञानापगमाय यूयं प्रयतध्वं प्रयत्नं कुरुध्वम् / किंभूताः / इतामया गतरोगाः / पुनः किंभूताः / महान्ति अरीणि चक्राणि धर्मचक्रलक्षणानि येषां ते / किं कुर्वाणाः / दधानाः