________________ श्रीअभिनन्दनजिनस्तुतयः मोहरणौ-अज्ञानसङ्ग्रामौ येषां ते अमतमोहरणाः इति ‘बहुव्रीहिः' / “अस्त्रियां समरानीकरणाः कलहविग्रहौ” इत्यमरः (श्लो० 1676) / यद्वा मतानि साङ्ख्यादीनि चार्वाकादीनि वा तत्र यो मोह:मूढत्वं स्वदर्शनपक्षपातित्वमिति वा तस्माद् यो रणः-कलहः वाग्वादरूपः, ततो न मतमोहरणो येषां ते तथा / पुनः कीदृशाः ? / 'यमहारिणः' यमः-कृतान्त इति यावत् तं हरन्तीत्येवंशीला यमहारिणः / “यमः कृतान्तः पितृदक्षिणाशा [प्रेतात्पतिः]” इति हैमः (का० 2, श्लो० 98) / अथवा यमाः-अहिंसादयः, “अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः” इति (अभि० का० 1, श्लो० 81) वचनात् / तैः यमैः हारिणो मनोहरा यमहारिणः-एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते न्याय्यमेव तथापि / / 14 / / सौ० वृ०-जिनंवरा इति / हे जिनवराः ! यूयं मम तमोहरणाय-अज्ञानापनोदनाय प्रयतध्वं इत्यन्वयः / ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / ‘प्रयतध्वं' प्रकर्षेण यत्न-प्रयत्न कुरुध्वम् / कस्मै ? / तमोहरणाय / कस्य ? / मम / किंविशिष्टा जिनवराः ? / इता-गता आमयारोगा येभ्यः ते ‘इतामयाः' / पुनः किं० जिनवराः ? / महान्ति-प्रौढानि अरीणि-धर्मचक्रादीनि येषां ते 'महारिणः' / जिनवराः किं कुर्वन्तः ? / 'प्रदधतः प्रकर्षेण दधतः-धारयन्तः / कां कर्मतापन्नाम् ? / 'विश्वजनीनतां' सकलजनेषु मैत्रीभायम् / कस्याम् ? / 'भुवि' पृथिव्याम् / किं विशिष्टा जिनवराः ? / अमतौ-अमान्यौ मोहो-मोहनीयकर्म रणः-संग्रामः तौ द्वौ येषां ते 'अमतमोहरणाः' / पुनः किं० जिनवराः ? / 'यमहारिणः' मृत्युहरणशीलाः / अथवा मतमोहो-दर्शनमूढत्वं तस्मात् रणः-कलहो वादलक्षणो येषां ते ‘अमतमोहरणाः' / तथा यमा-अहिंसासूनृतास्तेयब्रह्माकिञ्चनताः तैः हारिणो मनोहराः 'यमहारिणः' / इति पदार्थः / / ____ अथ समासः-जयन्ति रागादीन् शत्रून् इति जिनाः-सामान्यकेवलिनः, तेषु वरा जिनवराःतीर्थंकरनामकर्मोदयवर्तिनः / इताः-क्षयं गता आमया-रोगा येभ्यः ते इतामयाः / तमसो हरणं तमोहरणं, तस्मै तमोहरणाय / महान्ति अरीणि चक्राणि येषां ते महारिणः / विश्वजनेषु हितं इति विश्वजनीनं, विश्वजनीनस्य भावो विश्वजनीनता, तां विश्वजनीनताम् / हितवात्सल्यार्थे जनीनप्रत्ययः / मोहश्च रणश्च मोहरणौ, न मतौ अमतौ, अमतौ मोहरणौ येषां ते अमतमोहरणाः / यद्वा मतस्य मिथ्यादर्शनस्य मोहः मतमोहः, मतमोहात् रणः मतमोहरणः, न विद्यते मतमोहरणो येषां ते अमतमोहरणाः / यमं हारयन्तीति यमहारिणः, अथवा यमाः पञ्च महाव्रतानि तैः कृत्वा हारिणः-शोभमानाः यमहारिणः // इति द्वितीयवृत्तार्थः / / 14 / / 1. 'जनीन' एवंरुपः कोऽपि प्रत्ययो न वर्तते / अत्र त जनशब्देन साकं हित-वात्सल्यार्थे 'ईन' प्रत्ययः प्रयुक्तोऽस्ति /