________________ शोभनस्तुति-वृत्तिमाला विश्वजनीनस्तस्य भावो विश्वजनीनता ताम् / जिनवराः कथंभूताः ? 'इतामयाः' इता-गता आमया-रोगा येभ्यस्ते तथा / पुनः कथंभूताः ? 'महारिणः' महान्ति-महत्प्रमाणानि अरीणि-चक्राणि धर्मचक्राणि येषां ते तथा / पुनः कथं० ? 'अमतमोहरणाः' अमतौ-अनभिप्रेतौ मोहरणौ-अज्ञानसंग्रामौ येषां ते तथा / अथवा मतानि-सांख्यादीनि तत्र यो मोहो-मूढत्वं तस्मात् यो रणः-कलहो वादलक्षणः ततो न मतोमोहरणो येषां ते तथा / पुनः कथं० ? 'यमहारिणः' यमः-कृतान्तः मरणमिति यावत् तं हरन्तीत्येवंशीला यमहारिणः / अथवा यमा अहिंसादयः / “अहिंसासूनृतास्तेयब्रह्याकिञ्चनता यमाः” इत्यभिधानचिन्तामणिवचनात् (का० 1 श्लो० 81) / तैः हारिणः-मनोहराः / एतानि सर्वाण्यपि विशेषणानि चेत् सम्बोधनपुरस्कारेण व्याख्यायन्ते तथापि न्याय्यमेव / ___ अथ समासः-जिनानां जिनेषु वा वराः 'तत्पुरुषः' ।इता आमया येभ्यस्ते इतामयाः ‘बहुव्रीहिः' / तमसो हरणं तमोहरणं 'तत्पुरुषः' / तस्मै तमो० / महान्ति अरीणि येषां ते महारिणः ‘बहुव्रीहिः' / विश्वे च ते जनाश्च विश्वजनाः ‘कर्मधारयः' / विश्वजनानां हितो विश्वजनीनः / विश्वजनीनस्य भावो विश्व० 'तत्पुरुषः' / तां विश्व० / मोहश्च रणश्च मोहरणौ ‘इतरेतरद्वन्द्वः' / न मतौ अमतौ 'तत्पुरुषः' / अमतौ मोहरणौ येषां ते अमतमोहरणाः ‘बहुव्रीहिः' / यद्वा मतेषु मोहो मतमोहः तत्पुरुषः' / मतमोहात् रणो मतमोहरणः 'तत्पुरुषः' / न विद्यते मतमोहरणो येषां ते अमत० 'बहुव्रीहिः' / यमस्य हारिणो यमहारिणः / यमहरन्तीति यमहारिण इति वा / उभयथाऽपि तत्पुरुषः' / अथवा यमैर्हारिणो यमहारिणः 'तत्पुरुषः' / इति काव्यार्थः / / 14 // सि० वृ०-जिनवरा इति / जिनाः-सामान्यकेवलिनः तेषु वराः-प्रधानाः तीर्थङ्कराः तेषां सम्बोधनं हे जिनवराः ! / यूयं मम तमोहरणाय तमः-पापं अज्ञानं वा तस्य हरणं-अपहारः तस्मै भुवि-पृथिव्यां प्रयतध्वं-प्रयत्नं कुरुध्वम् इत्यर्थः / 'यती प्रयत्ने' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि आत्मनेपदे मध्यमपुरुषबहुवचनम् / प्रपूर्वकः यत् अग्रे ध्वम् / ‘अप्०' (सा० सू० 691), 'स्वरहीनं०' (सा० सू० 36) / तथा च प्रयतध्वमिति सिद्धम् / अत्र ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? / यूयम् / कस्मै ? / तमोहरणाय / कस्य ? / मम / जिनवराः किं कुर्वन्तः ? / प्रदधतः-धारयतः / कां कर्मतापन्नाम् ? / 'विश्वजनीनतां' विश्वजनानां-सर्वलोकानां हितं विश्वजनीनम्, तस्य भावः तत्ता तां विश्वजनीनताम् / 'आत्मविश्वमातृभोगोत्तरपदात्' इति खः खस्य च ईनादेशः / कस्याम् ? / भुविपृथिव्याम् / कथंभूता जिनवराः ? / 'महारिणः' महान्ति-तेजोवन्ति अरीणि-चक्राणि येषां ते महारिणः धर्मचक्रवर्तिनः, तेषां पुरो धर्मचक्रचालनादिति भावः / “अरं शीघे च चक्राङ्गे शीघ्रगे पुनरन्यवत्” इति विश्वः / पुनः कथंभूताः ? / 'अमतमोहरणाः' मोहश्च रणश्च मोहरणौ ‘इतरेतरद्वन्द्वः' / अमतौ-अनभिप्रेती