________________ श्रीअभिनन्दनजिनस्तुतयः गम्यते, अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देन असुमन्त एवोच्यन्ते; 'अवधूनयनः' न वधूषु नयने यस्य सः / ‘परमोदरः' परेभ्यो मोदरो-हर्षदः / ‘स्मरकरीन्द्रविदारणकेसरिन् !' स्मर एव करीन्द्रस्तस्य विदारणे केसरिन्-सिंह ! / 'सुरव !' चारुध्वने ! / 'धूनय' कम्पय / 'नः' अस्माकम् / ‘परमोऽदरः' परमः-उत्कृष्टः अदरः-निर्भयः / अथवा परमं उदरं यस्य सः यत एव केसरी अतः सुरवः परमोदरश्चेति विशेषितः / हे अभिनन्दन ! जिन ! त्वं अशुभानि धूनय इति योगः / / 13 / / अवचूरिः हे अभिनन्दन जिन, त्वमशुभान्यशिवान्यकल्याणान्यपुण्यानि वा नोऽस्माकं धूनय कम्पय विनाशय / किंभूतः / नन्दिता असवः प्राणाः प्राणिनां येन / अथवा धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते / तथा न वधू' नयने यस्य स तथा / यद्वा नन्दितानि असुरवधूनयनानि येन सः / तथा परेभ्यो मोदं राति ददाति यः / यद्वा परमुदरं यस्य / हे सुरव, जगदाह्रादित्वात् वर्यदेशनाध्वने ! / परमः प्रधानः / अदरो निर्भयश्च / / 13 / / समग्रजिनेश्वराणामभ्यर्थनाजिनवराः ! प्रयतध्वमितामया मम तमोहरणाय महारिणः / प्रदधतो भुवि विश्वजनीनता..ममतमोहरणा यमहारिणः // 2 // 14 // ___ - द्रुत० (1) . ज० वि०-जिनवरा इति / हे जिनवराः ! जिनः-सामान्यकेवलिनः तेषु वराः-मुख्यास्तीर्थकरास्तत्सम्बो० हे जिनवराः ! भुवि-पृथिव्याम् यूयं मम तमोहरणाय तमः पापं अज्ञानं वा तस्य हरणंअपहारस्तस्मै प्रयतध्वं-प्रयत्नं कुरुध्वम् / कस्याम् ? भुवि' पृथिव्याम् / इदं पदं अग्रे वक्ष्यमाणया प्रदधत इत्यनयापि क्रियया योजयितुं युक्तमेवेति क्रियाकारकान्वयः / तत्र ‘प्रयतध्वम्' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कस्मै ? 'तमोहरणाय' / कस्य ? 'मम' / जिनवराः किं कुर्वन्तः ? प्रदधतः' धारयतः धारयन्तो वा / कां कर्मतापन्नाम् ? 'विश्वजनीनताम्' विश्वे-सर्वे जना-लोकाः विश्वजनानां हितो