________________ १२.aaaaaaaaaaaaaaaaaaaa..शाभनस्तुति वृत्तिमाला ____ अथ समासः-अभि-सामस्त्येन सर्वप्रकारेण नन्दयतीति अभिनन्दनः, तस्य सं० हे अभिनन्दन ! / नन्दिता असवः-प्राणिनो येन स नन्दितासुः / नास्ति वधूषु नयनं यस्य सः अवधूनयनः / यद्वा एकत्र विशेषणे असुराणां वध्वः असुरवध्वः, असुरवधूनां नयनानि असुरवधूनयनानि, नन्दितानि असुरवधूनयनानि येन स नन्दितासुरवधूनयनः / परैः-योगिभिः मीयते-ज्ञायते इति परमः / यद्वा परान्शत्रून् रागद्वेषादीन् मीनाति-हिनस्तीति परमः / अथवा परा-प्रकृष्टा मा-लक्ष्मीः यस्य स परमः / न विद्यते दरो-भयं यस्य सः अदरः / यद्वा एकत्र विशेषणे परमं उदरं यस्य स परमोदरः / करः एषां अस्तीति करिणः, करिणां इन्द्रः करीन्द्रः, स्मर एव करीन्द्रः स्मरकरीन्द्रः, स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रविदारणं, स्मरकरीन्द्रविदारणे केसरीव केसरी स्मरकरीन्द्रविदारणकेसरी, तस्य सं० हे स्मरकरीन्द्रविदारणकेसरिन् ! | सुष्ठुरवो यस्य स सुरवः, तस्य सं० हे सुरव ! / परेभ्यो मोदं राति-ददाति इति परमोदरः / द्रुतविलम्बितच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 13 / / . (4) दे० व्या०–त्वमशुभेति / हे अभिनन्दन ! त्वं नः-अस्माकं अशुभानि-पापानि धूनय-विनाशय इत्यन्वयः 'धूञ् कम्पने' धातुः। 'धूनय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? | अशुभानि / “कर्णिका स्यादथाशुभम्” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 16) / केषाम् ? / नः / किंविशिष्टस्त्वम् ? / 'नन्दितासुः' नन्दिताः-आनन्दं प्रापिताः असवः-प्राणिनो येन स तथा / धर्मधर्मिणोः कथञ्चिदभेदादसुशब्देन असुमन्त एवोच्यन्ते / पुनः किंविशिष्टः ? / अवधूनयनः वधूषु-दारासु न विद्यते नयने लोचने यस्य स तथा / प्रत्याहारत्वेन तत्संभवात् / “दाराः क्षेत्रं वधूर्भार्याः' इत्यभिधानचिन्तामणिः (का० 3, श्लो० 177) यद्वा नन्दितानि-आनन्दं प्रापितानि असुरवधूनां-दानवस्त्रीणां नयनानि येन स तथेत्येकमेव पदम् / पुनः किंविशिष्ट: ? / 'परमोदरः' परेभ्यो मोदं-हर्षं राति-ददाति 'क्वचित्' (सि० अ० 5, पा० 1, सू० 171) इतिडप्रत्यये परमोदरः / यद्वा परमं-परमगभीरत्वेन प्रकृष्टं उदरं यस्य स तथेत्यर्थः / पुनः किंविशिष्ट: ? / 'परमोदरः' परमः-प्रकृष्ट: अदरो-निर्भयः विशेषणद्वयम् / ‘स्मरकरीन्द्रविदारणकेसरिन् !' इति / स्मरः-कामः स एव करीन्द्रः-चतुर्दन्तः तस्य विदारणे-विस्फोटने केसरीव केसरी तस्यामन्त्रणम् / 'सुरव !' इति / सुष्टु-शोभनो जगदाह्लादकारित्वात् रवो-देशनाध्वनिः यस्य स तस्यामन्त्रणम् / भगवतः सम्बोधनपदद्वयम् / / इति प्रथमवृत्तार्थः / / 13 // ध० टीका-त्वमिति / 'त्वं' 'अशुभानि' पापानि ‘अभिनन्दन !' / 'नन्दितासुरवधूनयनः' नन्दितानि असुरवधूनां नयनानि येन सः / अथवा 'नन्दितासुः' आनन्दितप्राणः, प्राणिनामिति अर्थाद्