________________ श्रीअभिनन्दनजिनस्तुतयः कथंभूतस्त्वम् ? / 'नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा / यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे / ततश्चायमर्थः-नन्दिताः असवः-प्राणिनो येन स तथा / यद्यपि असुशब्देन प्राणा एवोच्यन्ते आनन्दस्य चात्मधर्मत्वात् तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदादसुशब्देनासुमन्त एवोच्यन्ते इत्युपपन्नमेवैतत् / तथा न विद्यते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा / ब्रह्मचारित्वेन स्त्रीणां निभालने पराङ्मुखत्वादिति भावः / पुनः कथंभूतः ? | ‘परमोदरः' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्षं राति-ददातीति परमोदरः / 'क्वचित्' (सि० अ०५, पा० 1, सू० 171) इति डः / पुनः कथंभूतः ? / 'अदरः' नास्ति दरः-भयं यस्माद् यस्य वा सः अदरः / “दरोऽस्त्रियां भये श्वभ्रे” इत्यमरः (श्लो० 2704) यद्वा परमोदर इत्येकमेवेदं विशेषणम् / तथा चायमर्थः-परमं-उत्कृष्टं महदिति यावत् उदरं-कुक्षिर्यस्य स तथा / भूयसां परमर्मभिदा-रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकाशनाद् गम्भीर इति हार्दम् / अवशिष्टे द्वे सम्बोधने / तयोश्चायमर्थः-हे ‘स्मरकरीन्द्रविदारणकेसरिन्' ! स्मरः-कामः स एव दुर्धरत्वात् करीन्द्रोगजेन्द्रः तस्य यद् विदारणं-पाटनं द्वैधीकरणमिति यावत् तत्र केसरीव केसरी-सिंहः तस्य सं० हे स्मर० केसरिन् ! / 'उपमितं व्याघा [दिभिः सामान्याप्रयोगे]' (पा० अ० 2, पा० 1, सू० 56) इति समासः हे 'सुरव' ! सुष्टु शोभनो रवो-देशनाध्वनिः यस्य स तथा तस्य सम्बोधनं हे सुरव ! / / 13 / / - सौ० वृ०-त्वमशुभेति / यः सकलसुखकृद् भवति स जिनः सर्वजनाभिनन्दनो भवति / अनेन सम्बन्धेन आयातस्य श्रीअभिनन्दनजिनस्य स्तुतिंव्याख्यानं प्रारभ्यते / हे 'अभिनन्दन' ! जगदानन्दकारक ! / स्मरः-कामः स एव करीन्द्रः-हस्ती तस्य विदारणं-भेदनं तत्र केसरी-सिंह इव सिंहः तस्य सम्बोधनं हे ‘स्मरकरीन्द्रविदारणकेसरिन्' ! / सुष्ठु-शोभनो रवः-शब्दो यस्य स पञ्चत्रिंशद्वारगुणयुक्तत्वात् तस्य सं० 'सुरव' ! / त्वं नः-अस्माकं अशुभानि-अपुण्यानि धूनय-अवधूनय इत्यन्वयः / 'धूनय' इति क्रियापदम् / कः कर्ता ? / 'त्वं' भवान् / 'अवधूनय' स्फेटय-कम्पय / कानि कर्मतापन्नानि ? / 'अशुभानि' शुभेतराणि / केषाम् ? / 'नः' अस्माकम् / किंविशिष्टः त्वम् ? / नन्दिता-आनन्दिता असवःप्राणा येन स नन्दितासुः' / धर्मधर्मिणोरभेदोपचारात् असुशब्देन प्राणिन एव उच्यन्ते / पुनः किंविशिष्टः त्वम् ? / न स्तः वधूषु नयने-लोचने यस्य सः ‘अवधूनयनः' / यद्वा नन्दितानि आनन्दितानि असुरवधूनां-देवस्त्रीणां नयनानि येन स 'नन्दितासुरवधूनयनः' / पुनः किंविशिष्टः त्वम् ? / परेभ्यःअन्येभ्यः मोदं-हर्षं राति-ददाति इति ‘परमोदरः' / पचादित्वादप्रत्ययः / पुनः किंविशिष्टः त्वम् ? | 'परमः' प्रकृष्टः-प्रधानः / पुनः किं० त्वम् ? / 'अदरः' निर्भयः / यद्वा परमं-प्रकृष्टं उदरं-जठरं सकलप्रवचनोद्भूतवाक्याधारत्वात् / / इति पदार्थः / /