________________ 60 शोभनस्तुति-वृत्तिमाला निभालने पराङ्मुखत्वात् / पुनः कथंभूतः ? 'परमोदरः' परेभ्यः-आत्मनोऽन्येभ्यः प्राणिभ्यः मोदं-हर्ष राति-ददाति इति परमोदरः / पुनः कथं० ? 'परमः' उत्कृष्टः / पुनः कथं० ? 'अदरः' न विद्यत दरोभयं यस्य यस्माद् वा स तथा / यद्वा परमोदर इत्येकमेवेदं विशेषणम् / तथा चायमर्थः-परमं-उत्कृष्टं महदिति यावत् उदरं-कुक्षिर्यस्य स तथा / भूयसां परमर्मभिदां रहस्यानां ज्ञातृत्वेऽप्यन्यत्राप्रकटनाद् गम्भीर इति भावार्थः / अवशिष्टे च द्वे सम्बोधने तयोश्चायमर्थः-हे 'स्मरकरीन्द्रविदारणकेसरिन्' ! स्मरःकन्दर्पः स एव दुर्धरत्वात् करीन्द्रो-गजेन्द्रः तस्य यद् विदारणं-छेदनं तत्र केसरीव-सिंह इव केसरी तत्सम्बोधनं हे स्मर० / हे 'सुरव !' सुष्ठु रवः-शब्दो यस्य स तथा तत्सम्बो० हे सुरव ! / / अथ समासः-न शुभानि अशुभानि 'तत्पुरुषः' / असुराणां वध्वः असुरवध्वः 'तत्पुरुषः' / असुरवधूनां नयनानि असुर० 'तत्पुरुषः' / नन्दितानि असुरवधूनयनानि येन स नन्दिता० ‘बहुव्रीहिः' / पृथग् विशेषणपक्षे त्वेवम्-नन्दिता असवो येन स नन्दितासुः ‘बहुव्रीहिः' / वधू' नयने यस्य स वधूनयनः 'बहुव्रीहिः' / न वधूनयनोऽवधूनयनः 'तत्पुरुषः' / मोदं रातीति मोदरः 'तत्पुरुषः' / परेभ्यो मोदरः परमोदरः 'तत्पुरुषः' / करिणामिन्द्रः करीन्द्र: 'तत्पुरुषः' / स्मर एव करीन्द्रः स्मरकरीन्द्र: / स्मरश्चासौ करीन्द्रश्च स्मरकरीन्द्र इति वा / उभयथाऽपि ‘कर्मधारयः' / स्मरकरीन्द्रस्य विदारणं स्मरकरीन्द्रवि० 'तत्पुरुषः' / स्मरकरीन्द्रविदारणे केसरी स्मरकरीन्द्रविदारणके० 'तत्पुरुषः' / तत्सम्बो० हे स्मरक० / शोभनो रवो यस्य स सुरवः ‘बहुव्रीहिः' / न विद्यते दरो यस्य सोऽदरः ‘बहुव्रीहिः' / एकविशेषणपक्षे त्वेवम्-परमं उदरं यस्य स परमोदरः ‘बहुव्रीहिः' / / इति काव्यार्थः / / 13 / / सि० वृ०-त्वमशुभेति / हे अभिनन्दन ! / अभिनन्द्यते-स्तूयते देवेन्द्राद्यैः इत्यभिनन्दनः / नन्द्यादेयुः / योश्चानादेशः / तस्य सम्बोधनं हे अभिनन्दन ! / इत्यत्र ‘हैहयोः स्वरे सन्धिर्न वक्तव्यः' (सा० सू० 70) / अभिनन्दननामजिन ! त्वं नः-अस्माकं अशुभानि-असुकृतानि पापानि इति यावत् धूनयकम्पय लक्षणया दूरीकुरुष्वेत्यर्थः / ण्यन्त 'धूञ् कम्पने' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / धूञ् अग्रे हि: 'चुरादेः' (सा० सू० 1031) इति जिः / 'प्रीञ्धूजोर्नुक्' (सा० सू० 1055), धूहि जाते सति ‘अप् कर्तरि' (सा० सू० 691), ‘गुणः' (सा० सू० 692), ‘ए अय्' (सा० सू० 41) 'अतः' (सा० सू० 705) इति हेर्लुक्, 'स्वरहीनं०' (सा० सू० 36) / तथा च 'धूनय' इति सिद्धम् / अत्र 'धूनय' इति क्रियापदम् / कः कर्ता ? / त्वम् / कानि कर्मतापन्नानि ? / अशुभानि / केषाम् ? / नः / अस्मच्छब्दस्य षष्ठीबहुवचने अस्माकमित्यस्य नसादेशः / 1. पचिनन्दिग्रहादेरयुणिनि (सा० सू० 1199) /