________________ श्रीअभिनन्दनजिनस्तुतयः ___4. श्रीअभिनन्दनजिनस्तुतयः अथ अभिनन्दनस्य प्रार्थनात्वमशुभान्यभिनन्दन ! नन्दिता ऽसुरवधूनयनः परमोदरः / ..स्मरकरीन्द्रविदारणकेसरिन् / सुरव ! धूनय नः परमोऽदरः // 1 // 13 // - द्रुतविलम्बितम् (1) ज० वि०-त्वमशुभेति / हे अभिनन्दन !-अभिनन्दननामन् ! त्वं भवान् नः-अस्माकं अशुभानिअसुकृतानि पापानीति यावत् धूनय-कम्पय, लक्षणया दूरीकुरुष्वेत्यर्थः, इति क्रियाकारकप्रयोगः / अत्र 'धूनय' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कानि कर्मतापन्नानि ? 'अशुभानि' / केषाम् ? 'नः' / त्वं कथंभूतः ? 'नन्दितासुरवधूनयनः' नन्दितानि-प्रमोदितानि असुरवधूनां-देवविशेषसम्बन्धिनीनां स्त्रीणां नयनानि-लोचनानि येन स तथा / यद्वा नन्दितासुः अवधूनयनश्चेति पृथगेव द्वे विशेषणे / तयोश्चायमर्थः-नन्दिता असवो येन स तथा / अत्र यद्यपि असुशब्देन प्राणा एव प्रतिपाद्यन्ते, आनन्दस्य त्वात्मधर्मत्वेन तेष्वसम्भवः, तथापि धर्मधर्मिणोः कथंचिदभेदप्रतिपादनात् असुशब्देनासुमन्तोऽप्युच्यन्ते इत्युपपन्नमेवेदम् / तथा न विद्यते वधूषु-स्त्रीषु विषयेषु नयने यस्य स तथा / ब्रह्मचारित्वेन स्त्रीणां