________________ शोभनस्तुति-वृत्तिमाला अवचूरिः या देवी शृङ्खलाभरणभृत् सुवर्णवर्णा चास्ति तां श्रीवज्रशृङ्खलां वज्रशृङ्खलाभिधानामानम / किंभूताम् ? / असमानोऽसाधारणो मानः पूजा बोधो वा येषां, अथवा असदृशौ आनमानौ प्राणाहंकारौ येषां ते असमानमानाः ते च मानवाश्च तैर्महिता पूजिता ताम् / कजयातां पङ्कजगताम् / असमानं निरहंकारं यथा स्यात् एवम् / आनम नमस्कुरु / अवमं पापं तन्न विद्यते येषां तेऽनवमास्तेभ्यो हिताम् // 12 // 4 / 3 / 12 //