________________ श्रीशम्भवजिनस्तुतयः (4) दे० व्या०-शृङ्खलभृदिति / तां श्रीवज्रशृङ्खलां देवीं असमानं-निरहङ्कारं यथा स्यात् तथा त्वं आनम-नमस्कुरु इत्यन्वयः / ‘णम प्रतीभावे' धातुः / ‘आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / कां कर्मतापन्नाम् ? | श्रीवज्रशृङ्खलाम् / श्रीशब्दोऽत्र महत्त्वख्यापकः / यत्तदोर्नित्याभिसंबन्धात् या वज्रशृङ्खला शृङ्खलाभरणभृत् कनकनिभा च / अस्तीत्यध्याहारः / ‘अस्ति' इति क्रियापदम् / का की ? / वज्रशृङ्खला / किंविशिष्टा वज्रशृङ्खला ? / 'शृङ्खलाभरणभृत्' शृङ्खला-आभरणविशेषः तां बिभर्तीति शृङ्खलाभृत् / क्विप्प्रत्ययान्तो निर्देशः / ‘कनकनिभा' सुवर्णसदृशा, कनकेन निभा कनकनिभा इति समासः / पुनः किंविशिष्टाम् ? / 'असमानमानमानवमहिताम्' असमानः-असाधारणः मानः-पूजा बोधः स्मयो वा येषां एवंविधा ये मानवाः-मास्तैः पूजितां-महिताम् / पुनः किंविशिष्टाम् ? | 'कजयातां' कजे-कमले यातां-प्राप्ताम्, उपविष्टामिति यावत् / पुनः किंविशिष्टाम् ? / 'अनवमहितां' अवमं-पापं न विद्यते येषां ते अनवमा-निष्पापाः, तेषां हितां वत्सलाम् / / इति चतुर्थवृत्तार्थः / / आर्यावृत्तम् / / : "लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे यः (जः ?) / षष्ठोऽयं च न लघु वा, प्रथमेऽर्धे नियतमार्यायाः // " इति तल्लक्षणम् (वृत्तरत्नाकरे) // 12 // 4 / 3 / 12 // * 'ध० टीका-शृङ्खलभृदिति / 'शृङ्खलभृत्' शृङ्खलधारिणी / 'कनकनिभा' काञ्चनच्छाया / 'या' देवता 'तां' / 'असमानमानमानवमहितां' असमानः-असाधारणो मानः-पूजा बोधो वा येषां ते असमानमानास्ते च ते मानवाश्च तैर्महितां-पूजिताम् / 'श्रीवज्रशृङ्खला' वज्रशृङ्खलाभिधानां, 'श्री' शब्दो महत्त्व-प्रतिपादकः पूज्यनामादौ लोके प्रयुज्यते / 'कजयातां' पङ्कजगताम् / 'असमानमानम' असमानं-असाहङ्कारं यथा भवत्येवं आनम-प्रणम / 'अनवमहिता' अवमं पापं तद् न विद्यते येषां ते अनवमास्तेभ्यो हितां-हितकारिणीम् / इदं वा व्याख्यानं असमानौ-असदृशौ आनमानौ-प्राणाहंकारौ येषां ते असमानमानाः, ते च ते मानवाश्च तैर्महिताम् / 'असमानं' अनन्यसदृशं यथा भवत्येवम् / आनम | 'अनवमहितां' अनवमस्य हिताम् // 12 // 4 / 3 / 12 // 1. 'शृङ्खलभृत्' इति प्रतिभाति /