________________ शोभनस्तुति-वृत्तिमाला कारवद्भिरपि मानवैः पूजितामित्यर्थः / पुनः कथंभूताम् ? ।'कजयातां' कजं-कमलं तत्र यातां प्राप्तां, पङ्कजस्थितामित्यर्थः / पुनः कथंभूताम् ? / 'अनवमहिताम्' अवमं-पापं न विद्यते येषां ते अनवमाःअनघाः तेभ्यो हितां-हितकारिणीम् / “अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं बुवम्” इति हैमः (का० 6, श्लो० 78) / स्कन्धकं छन्दः / / 12 / / // इति शम्भवजिनस्तुतिवृत्तिः // 4 / 3 / 12 // (3) सौ० वृ०-शृङ्खलभृदिति / हे भव्य ! त्वं तां वज्रशृङ्खलाभिधानां देवीं असमानं-गताहङ्कारं यथा स्यात् तथा आनम इत्यन्वयः / ‘आनम' इति क्रियापदम् / कः कर्ता ? / त्वम् / ‘आनम' प्रणम | कां कर्मतापन्नाम् ? / श्रीवज्रशृङ्खलाम् / श्रीशब्दो महत्त्वप्रतिपादकः पूज्यनाम्नां आदौ लोके प्रयुज्यते / कथम् ? / असमानं यथा स्यात् तथा / किंविशिष्टां वज्रशृङ्खलाम् ? / असमानः-असदृशः मानो-गर्वो येषां ते तादृशाः मानवा-मनुष्याः तैः महिता-पूजिता असमानमानमानवमहिता, तां ‘असमानमानमानवमहिताम्' / पुनः किंविशिष्टां श्रीवज्रशृङ्खलाम् ? / 'कजयातां' पद्मासनाम् / पुनः कथंभूतां श्रीवज्रशृङ्खलाम् ? / 'तां' प्रसिद्धाम् / तां काम् ? / या देवी 'शृङ्खलभृत्' शृङ्खलाभरणधारिणी / पुनः कथं० ? / 'कनकनिभा' सुवर्णच्छविः / पुनः किंविशिष्टां श्रीवज्रशृङ्खलाम् ? / अवमं-पापं तन्नास्ति येषां ते अनवमाः-निरवद्याः तादृशा ये मानवाः तेभ्यो हिता-हितकारिणी, अनवमहिता तां 'अनवमहिताम्' / अथवा इदं व्याख्यानम्, असमौ-असदृशौ आनमानौ-प्राणाहकारौ येषां ते तादृशा मानवाः तैः महिता ताम् / इति वृत्तार्थः / / ____ अथ समासः-शृङ्खलं बिभर्तीति शृङ्खलभृत् / कनकवत् निश्चिता,भा-कान्तिः यस्याः सा / अथवा कनकवत् निभा-सदृशा / न समानः असमानः असमानो मानो येषां ते असमानमानाः, असमानमानाश्च ते मानवाश्च असमानमानमानवाः, असमानमानमानवैः महिता असमानमानमानवमहिता, तां असमानमानमानवमहिताम् / श्रिया युक्ता वज्रशृङ्खला श्रीवज्रशृङ्खला, तां श्रीवज्रशृङ्खलाम् / कजेन यातं-गमनं यस्याः सा कजयाता. तां कजयाताम | मानेन सहितः समानः स न विद्यते यत्र तत असमानं, असमानं यथा स्यात् तथा। न विद्यते अवमं-पापं येषां ते अनवमाः / अनवमाश्च ते मानवाश्च अनवममानवाः, अनवममानवेभ्यः हिता अनवममानवहिता, तां अनवममानवहिताम् / अथवा असमानौअसदृशौ आनौ-प्राणौ येषां ते तादृशाः मानवाः तैर्महिता इत्यपि समासः / / इति चतुर्थवृत्तार्थः / / 12 / / श्रीशम्भवजिनेशस्य, स्तुतेरर्थः स्फुटीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // 1. अयं विग्रहः सूत्रनिरपेक्षो भासते / 2. न चैतादृशं पदमस्मिन् पद्ये, तस्मात् ‘अनवमानां हिता अनवम०, तां अनवम०' इति प्रतिभाति /